विघ्ननिघ्नं पापहरं महापुण्यकरं परम्
एकदा नन्दपत्नी च कृत्वा कृष्णं स्ववक्षसि
एतस्मिन्नन्तरे तत्र विप्रेंद्रैकः समागतः
प्रजपन्परमं ब्रह्म शुद्धस्फटिकमालया
ज्योतिर्ग्रंथो मूर्तिमांश्च वेदवेदांगपारगः
शरत्पार्वणचंद्रास्यो गौरांगः पद्मलोचनः
व्याख्यामुद्राकरः श्रीमाञ्छिष्यानध्यापयन्मुदा
एकीभूय चतुर्वेदास्तेजसा मूर्तिमानिव
ध्यानैकनिष्ठः श्रीकृष्णपादांभोजे दिवानिशम्
तं दृष्ट्वा सा समुत्तस्थौ यशोदा प्रणनाम च 4.13.
बालकं वंदयामास मुनीन्द्रं सस्मितं मुदा
आशिषं प्रददौ प्रीत्या वेदमंत्रोपयोगिकम्
शिष्यान्पाद्यादिकं भक्त्या प्रददौ च पृथक्पृथक्
समुद्यता सा प्रष्टुं च पुटाञ्जलियुता सती
स्वात्मारामं मंगलं च प्रष्टुं यद्यपि न क्षमा
अबला बुद्धिहीनाया दोषं क्षंतुं सदाऽर्हसि
अंगिरा वाऽथ वाऽत्रिर्वा मरीचिर्गौतमोऽथ वा
दुर्वासाः कर्दमस्त्वं वा वशिष्ठो गर्ग एव वा
सनत्कुमारः सनकः सनन्दो वा सनातनः
विश्वामित्रोऽथ वाल्माको वामदेवोऽथ कश्यपः 4.13.
भृगुः शुक्रश्च च्यवनो नरनारायणोऽथवा
मार्कण्डेयो लोमशश्च कण्वः कात्यायनस्तथा
पौलस्त्यस्त्वमगस्त्यो वा शरद्वान्गिरिरेव च
पाणिनिर्वा कणादो वा शाकल्यः शाकटायनः
जाबालो याज्ञवल्क्यश्च वैशंपायन एव च
उपमन्युर्गौरमुखोऽरुणिरौर्वोऽथ कक्षिवान्
एतेषां पुण्यश्लोकानां को भवान्वद मे प्रभो
किंकरः किंकरी वाऽपि समर्था प्रभुमीश्वरम्
धन्याऽहं कृतकृत्याहं सफलं जीवितं मम
त्वत्पादोदकसंस्पर्शात्सद्यः पूता वसुंधरा ।। तवागमनमात्रेण तीर्थीभूतो ममाश्रमः 4.13.