श्रुत्वा तद्वचनं गोपा गोप्यश्च जहसुर्मुदा
शिशोः स्वस्त्ययनं कार्यं चक्रुर्ब्राह्मणपुंगवाः
वदामि तत्ते विप्रेन्द्र कवचं सर्वरक्षणम्
निद्रिते जगतीनाथे जले च जलशायिनि
योगनिद्रोवाच स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः
कर्णयुग्मं च कण्ठं च कपालं पातु माधवः
अधरोष्ठं हृषीकेशो दंतपंक्तिं गदाग्रजः 4.12.
वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा
नितंबयुग्मं गुह्यं च पातु ते पुरुषोत्तमः
हस्तयुग्मं नृसिंहश्च पातु सर्वत्र संकटे
ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः
वनमाली पातु याम्यां वैकुंठः पातु नैर्ऋतौ
पातु ते संततमजो वायव्यां विष्टरश्रवाः
ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित्
इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम्
शुंभेन सह संग्रामे निर्लक्ष्ये घोरदारुणे
कवचस्य प्रभावेण धरण्यां पतितो मृतः 4.12.
मृते शुंभे च गोविन्दः कृपालुर्गगनस्थितः
कल्पांतरस्य वृत्तांतं कृपया कथितं मुने
कोटिशः कोटिशो नष्टा मया दृष्टाश्च वेधसः
इत्युक्त्वा कवचं दत्त्वा साऽन्तर्धानं चकार ह
सुवर्णगुटिकायां च कृत्वेदं कवचं परम्
विषाग्निजलशत्रुभ्यो भयं तस्य न जायते
संग्रामे वज्रपाते च विपत्तौ प्राणसंकटे
बद्ध्वेदं कवचं कण्ठे शंकरस्त्रिपुरं पुरा
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा
आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् 4.12.
तस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः
प्रभावः कथितः सर्वः कवचस्य हरेस्तथा