अतृप्तं बालकं शीघ्रं संन्यस्य शयने सती
तैलसिंदूरतांबूलं ददौ ताभ्यो मुदाऽन्विता
एतस्मिन्नन्तरे कृष्णो रुरोद क्षुधितस्तदा
पपात चरणं तस्य प्रवीणे शकटे मुने
बभंज शकटं पेतुर्भग्नकाष्ठानि तत्र वै
दृष्ट्वाऽऽश्चर्यं गोपिकाश्च दुद्रुवुर्बालकं भयात्
भग्नभांडसमूहं च पतितं बहुगोरसम्
मायारक्षितसर्वांगं रुदितं क्षुधितं क्षुधा 4.12.
पप्रच्छुर्बालकान्गोपा बभंज शकटं कथम्
इत्यूचुर्बालकाः सर्वे गोपाः शृणुत मद्वचः
श्रुत्वा तद्वचनं गोपा गोप्यश्च जहसुर्मुदा
शिशोः स्वस्त्ययनं कार्यं चक्रुर्ब्राह्मणपुंगवाः
वदामि तत्ते विप्रेन्द्र कवचं सर्वरक्षणम्
निद्रिते जगतीनाथे जले च जलशायिनि
योगनिद्रोवाच स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः
कर्णयुग्मं च कण्ठं च कपालं पातु माधवः
अधरोष्ठं हृषीकेशो दंतपंक्तिं गदाग्रजः 4.12.
वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा
नितंबयुग्मं गुह्यं च पातु ते पुरुषोत्तमः
हस्तयुग्मं नृसिंहश्च पातु सर्वत्र संकटे
ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः
वनमाली पातु याम्यां वैकुंठः पातु नैर्ऋतौ
पातु ते संततमजो वायव्यां विष्टरश्रवाः
ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित्
इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम्
शुंभेन सह संग्रामे निर्लक्ष्ये घोरदारुणे
कवचस्य प्रभावेण धरण्यां पतितो मृतः 4.12.
मृते शुंभे च गोविन्दः कृपालुर्गगनस्थितः
कल्पांतरस्य वृत्तांतं कृपया कथितं मुने