नानाप्रकारशृगारं विपरीतादिकं नृपः
कृत्वा मूर्तिसहस्रं च योगींद्रो नृपतीश्वरः
नार्यो विवसनाः सर्वा नग्नाश्च नृपयोषितः 4.11.
एतस्मिन्नंतरे तत्र समायातो महामुनिः
दृष्ट्वा मुनिं महामत्तो नोत्तस्थौ न ननाम ह
दृष्ट्वा चुकोप नृपतिं शशाप स्फुरिताधरः
भारते लक्षवर्षं च स्थातव्यं ते नराधम
स्थानेस्थाने हे महिष्यो जनिं लभत भारते
इत्युक्त्वा तु मुनींद्रस्तु जगाम शंकरालयम्
गते मुनींद्रे राजेंद्रो रुरोद च सरित्तटे
हे नाथ रमणश्रेष्ठेत्युच्चार्य च पुनः पुनः
वयं नो विहरिष्यामस्त्वया सार्द्धं सुनिर्जने
शरच्चंद्रप्रभामुष्टं न द्रक्ष्यामो मुखं तव 4.11.
इत्युक्त्वा रुरुदुः सर्वाः पुरस्कृत्य नराधिपम्
राजाऽग्निकुण्डमाधाय नारीभिः सह नारद
हाहाकारं सुराः सर्वे विचक्रुर्गगने स्थिताः
स च राजा तृणावर्तो जगाम हरिमंदिरम्
इत्येवं कथितं सर्वं हरेर्माहात्म्य मुत्तमम्
श्रीनारायण उवाच एकदा मंदिरे नन्दपत्नी साऽऽनंदपूर्वकम्
एतस्मिन्नंतरे गोप्य आजग्मुर्नंदमंदिरम्
अतृप्तं बालकं शीघ्रं संन्यस्य शयने सती
तैलसिंदूरतांबूलं ददौ ताभ्यो मुदाऽन्विता
एतस्मिन्नन्तरे कृष्णो रुरोद क्षुधितस्तदा
पपात चरणं तस्य प्रवीणे शकटे मुने
बभंज शकटं पेतुर्भग्नकाष्ठानि तत्र वै
दृष्ट्वाऽऽश्चर्यं गोपिकाश्च दुद्रुवुर्बालकं भयात्
भग्नभांडसमूहं च पतितं बहुगोरसम्
मायारक्षितसर्वांगं रुदितं क्षुधितं क्षुधा 4.12.
पप्रच्छुर्बालकान्गोपा बभंज शकटं कथम्
इत्यूचुर्बालकाः सर्वे गोपाः शृणुत मद्वचः