हरिस्तन्मानसं ज्ञात्वा पपौ जन्मांतरे स्तनम्
दत्त्वा विषस्तनं कृष्णं पूतना राक्षसी मुने
इत्येवं कथितं विप्र श्रीकृष्ण गुणकीर्तनम्
एकदा गोकुले साध्वी यशोदा नंदगेहिनी
वात्यारूपं तृणावर्तमागच्छंतं च गोकुलम्
भाराक्रांता यशोदा च तत्याज बालकं तदा
एतस्मिन्नंतरे त वात्यारूपधरोऽसुरः
बभंज वृक्षशाखाश्च ह्यंधीभूतं च गोकुलम्
असुरोऽपि हरिस्पर्शाज्जगाम हरिमंदिरम्
पांड्यदेशोद्भवो राजा शापाद्दुर्वाससोऽसुरः
वात्यारूपे गते गोपा गोप्यश्च भयविह्वलाः
सर्वे निजघ्नुः स्वं वक्षस्थलं शोकाकुला भयात्
अन्वेषणं प्रकुर्वंतो ददृशुर्बालकं व्रजे 4.11.
बाह्यैकदेशे सरसस्तीरे नीरसमन्विते
गृहीत्वा बालकं नंदः कृत्वा वक्षसि सत्वरम्
यशोदा रोहिणी शीघ्रं दृष्ट्वा बालं रुरोद च
मंगलं कारयामास स्नापयामास बालकम्
सुविचार्य वद ब्रह्मन्नितिहासं पुरातनम्
स्त्रीसहस्रं समादाय कामबाणप्रपीडितः
मनोहरे निर्जने च पर्वते गंधमादने
नानाप्रकारशृगारं विपरीतादिकं नृपः
कृत्वा मूर्तिसहस्रं च योगींद्रो नृपतीश्वरः
नार्यो विवसनाः सर्वा नग्नाश्च नृपयोषितः 4.11.
एतस्मिन्नंतरे तत्र समायातो महामुनिः
दृष्ट्वा मुनिं महामत्तो नोत्तस्थौ न ननाम ह
दृष्ट्वा चुकोप नृपतिं शशाप स्फुरिताधरः
भारते लक्षवर्षं च स्थातव्यं ते नराधम
स्थानेस्थाने हे महिष्यो जनिं लभत भारते
इत्युक्त्वा तु मुनींद्रस्तु जगाम शंकरालयम्
गते मुनींद्रे राजेंद्रो रुरोद च सरित्तटे