पप्रच्छ कुशलं सा च गोपानां बालकस्य च
तामूचुर्गोपिकाः सर्वाः का त्वमीश्वरि सांप्रतम्
तासां च वचनं श्रुत्वा साप्युवाच मनोहरम्
श्रुतं वाचिकवक्त्रेण तत्त्वं मंगलसूचकम्
श्रुत्वागताहं तं द्रष्टुमाशिषं कर्तुमीप्सिताम् ।। । पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम्
ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा
कृत्वा क्रोडे तु तं साध्वी चुचुंब च पुनः पुनः ।। 4.10.
अहोद्भुतोऽयं बालस्त सुन्दरो गोपसुन्दरि
कृष्णो विषस्तनं पीत्वा जहास वक्षसि स्थितः
तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा पपात ह
स्थूलदेहं परित्यज्य सृक्ष्मदेहं विवेश सा
पार्षदप्रवरैर्दिव्यैर्वेष्टितं सुमनोहरैः
वह्निशौचेन वस्त्रेण सूक्ष्मेण भूषितं वरम्
सुंदरं शतचक्रं च वलितं रत्नतेजसा
दृष्ट्वा तमद्भुतं लोका गोपिकाश्चातिविस्मिताः
यशोदा बालकं नीत्वा क्रोडे कृत्वा स्तनं ददौ
ददाह देहं तस्याश्च नंदः सानंदर्पूवकम् 4.10.
नारद उवाच सा वा का राक्षसीरूपा कथं पुण्यवती सती
बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम्
मनसा मानसं चक्रे पुत्रस्य सदृशो मम
हरिस्तन्मानसं ज्ञात्वा पपौ जन्मांतरे स्तनम्
दत्त्वा विषस्तनं कृष्णं पूतना राक्षसी मुने
इत्येवं कथितं विप्र श्रीकृष्ण गुणकीर्तनम्
एकदा गोकुले साध्वी यशोदा नंदगेहिनी
वात्यारूपं तृणावर्तमागच्छंतं च गोकुलम्
भाराक्रांता यशोदा च तत्याज बालकं तदा
एतस्मिन्नंतरे त वात्यारूपधरोऽसुरः
बभंज वृक्षशाखाश्च ह्यंधीभूतं च गोकुलम्
असुरोऽपि हरिस्पर्शाज्जगाम हरिमंदिरम्
पांड्यदेशोद्भवो राजा शापाद्दुर्वाससोऽसुरः