नंदाय तनयं दत्त्वा वसुदेवस्तवांतकम्
मायांशा कन्यकेयं च वासुदेवः स्वयं हरिः
देवक्याः सप्तमो गर्भो वर्द्धते नंदमंदिरे
स्थापयामास मायो तं रोहिणीजठरे किल
गोकुले तौ च वर्धेते कालौ ते नंदमंदिरे
चिंतामवाप सहसा तत्याजाहारमुन्मनाः
विषाक्तं च स्तनं कृत्वा शिशवे देहि सत्वरम् 4.10.
मायामानुषरूपं च विधाय व्रज योगिनि
सर्वरूपं विधातुं त्वं शक्तासि सुप्रतिष्ठिते
जगाम पूतना कंसं प्रणम्य कामचारिणी
बिभ्रती कबरीभारं मालतीमाल्यसंयुतम्
मंजीररशनाभ्यां च कलशब्दं प्रकुर्वती
परिखाभिर्गभीराभिर्दुर्लंघ्याभिश्च वेष्टितम्
इंद्रनीलैर्मरकतैः पद्मरागैश्च भूषितम्
प्राकारैर्गगनस्पर्शैश्चतुर्द्वारसमन्वितैः
वेष्टितं सुन्दरं रम्यं सुन्दरीगणवेष्टितम्
स्वर्णपात्रवटाकीर्णं गवां कोटिभिरन्वितम् 4.10.
दासीनां च सहस्रैश्च कर्मव्यग्रैः समन्वितम् ।। प्रविवेशाश्रमं साध्वी सस्मिता सुमनोहरा
दृष्ट्वा तां प्रविशंतीं च गोप्यो दृष्ट्वानुमेनिरे
प्रणेमुर्गोपिका गोपाः पप्रच्छुः कुशलं च ताम्
पप्रच्छ कुशलं सा च गोपानां बालकस्य च
तामूचुर्गोपिकाः सर्वाः का त्वमीश्वरि सांप्रतम्
तासां च वचनं श्रुत्वा साप्युवाच मनोहरम्
श्रुतं वाचिकवक्त्रेण तत्त्वं मंगलसूचकम्
श्रुत्वागताहं तं द्रष्टुमाशिषं कर्तुमीप्सिताम् ।। । पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम्
ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा
कृत्वा क्रोडे तु तं साध्वी चुचुंब च पुनः पुनः ।। 4.10.
अहोद्भुतोऽयं बालस्त सुन्दरो गोपसुन्दरि
कृष्णो विषस्तनं पीत्वा जहास वक्षसि स्थितः
तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा पपात ह