क्रोडे चक्रुः प्रशंसंत्य ऊषुस्तत्र च काश्चन
पारंपर्यविधिं तत्र चकार हृष्टमानसः
वाद्यानि वादयामास बंदिभ्यश्च ददौ धनम्
सद्रत्नानि प्रवालानि हीरकाणि च सादरम्
रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम्
मिष्टान्नं सल्लड्डुकौघं स्वादूनि मोदकानि च
तांबूलानि च तैलानि दत्त्वा हृष्टो बभूव ह
तत्र मंत्रज्ञमनुजान्स्थविरान्गोपिकागणान् 4.9.
भक्त्या च ब्राह्मणद्वारा पूजयामास देवताः
सस्मिता शीघ्रगामिन्य आजग्मुर्नंदमंदिरम्
वाक्सिद्धाः पुस्तककरा आजग्मुर्नंदमंदिरम्
बालिका बालकयुता आजग्मुर्नंदमंदिरम्
वरवस्त्राणि रौप्याणि गोसहस्राणि सादरम्
आशिषं युयुजुः सर्वे ददृशुर्बालकं परम्
गणकैः कारयामास यद्भविष्यं शुभाशुभम्
नंदालये हली चैव भुक्त मातुः पयोधरम्
तैलसिंदूरतांबूलं धनं ताभ्यो ददौ मुने
यशोदारोहिणीनंदास्तस्थुर्गेहे मुदान्विताः ।। 4.9.
शुश्राव वाचं गगने सूनृतामशरीरिणीम्
किं करोषि महामूढ चिंतां स्वश्रेयसः कुरु
नंदाय तनयं दत्त्वा वसुदेवस्तवांतकम्
मायांशा कन्यकेयं च वासुदेवः स्वयं हरिः
देवक्याः सप्तमो गर्भो वर्द्धते नंदमंदिरे
स्थापयामास मायो तं रोहिणीजठरे किल
गोकुले तौ च वर्धेते कालौ ते नंदमंदिरे
चिंतामवाप सहसा तत्याजाहारमुन्मनाः
विषाक्तं च स्तनं कृत्वा शिशवे देहि सत्वरम् 4.10.
मायामानुषरूपं च विधाय व्रज योगिनि
सर्वरूपं विधातुं त्वं शक्तासि सुप्रतिष्ठिते
जगाम पूतना कंसं प्रणम्य कामचारिणी