जगाम गोकुलं साध्वी वसुदेवाज्ञया मुने
देवक्याः सप्तमं गर्भं माया कृष्णाज्ञया तदा
संस्थाप्य च तदा गर्भं कैलासं सा जगाम ह
सुषाव पुत्रं कृष्णांशं तप्तरौप्याभमीश्वरम्
तस्यैव जन्ममात्रेण देवा मुमुदिरे तदा
जयशब्दं शंखशब्दं चक्रुर्देवा मुदान्विताः
चिच्छेद नाडीं धात्री च स्नापयामास बालकम्
परपुत्रोत्सवं नंदश्चकार परमादरात् 4.9.
धनानि नानावस्तूनि तैलं सिंदूरमेव च
जन्माख्यानं च हलिनो रोहिणीचरितं तथा
सुखदं मोक्षदं सारं जन्ममृत्युजरापहम्
सर्वाशुभविनाशं च भक्तिदास्यप्रदं हरेः
गृहीत्वा बालिकां हृष्टो जगाम निजमंदिरम्
अधुना गोकुले कृष्णचरितं शृणु मंगलम्
मंगले सूतिकागारे जयागारे जयान्विते
अतीव सुंदरं नग्नं पश्यंतं गृहशेखरम्
रुदंतं च हसंतं च् वेणुसंसक्तविग्रहम्
दृष्ट्वा नंदः स्त्रिया सार्द्धं हरिं हृष्टो बभूव ह 4.9.
चिच्छेद नाडीं बालस्य हर्षाद्गोप्यो जयं ददुः
बालिकाश्च वयस्यश्च विप्रपत्न्याश्च सूतिकाम्
क्रोडे चक्रुः प्रशंसंत्य ऊषुस्तत्र च काश्चन
पारंपर्यविधिं तत्र चकार हृष्टमानसः
वाद्यानि वादयामास बंदिभ्यश्च ददौ धनम्
सद्रत्नानि प्रवालानि हीरकाणि च सादरम्
रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम्
मिष्टान्नं सल्लड्डुकौघं स्वादूनि मोदकानि च
तांबूलानि च तैलानि दत्त्वा हृष्टो बभूव ह
तत्र मंत्रज्ञमनुजान्स्थविरान्गोपिकागणान् 4.9.
भक्त्या च ब्राह्मणद्वारा पूजयामास देवताः
सस्मिता शीघ्रगामिन्य आजग्मुर्नंदमंदिरम्