खातशीतोदकस्नायी सेवते चन्दनद्रवम् नोपयाति जरा तं च निदाघेऽनिलसेवकम्
प्रावृष्युष्णोदकस्नायी घनतोयं न सेवते
शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् 1.16.
खातस्नायी च हेमन्ते काले वह्निं च सेवते
शिशिरेंऽशुकवह्निं च नवोष्णान्नं च सेवते
सद्योमांसं नवान्नं च बालास्त्रीक्षीरभोजनम्
भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम्
दधि हैयङ्गवीनं च नवनीतं तथा गुडम्
शुष्कमांसं स्त्रियं वृद्धां बालार्कं तरुणं दधि
रात्रौ ये दधि सेवन्ते पुंश्चलीश्च रजस्वलाः
रजस्वला च कुलटा चावीरा जारदूतिका
यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः
पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् 1.16.
पापेन जायते व्याधिः पापेन जायते जरा
तस्मात्पापं महावैरं दोषबीजममङ्गलम्
स्वधर्माचारयुक्तं च दीक्षितं हरिसेवकम्
व्रतोपवासयुक्तं च सदा तीर्थनिषेवकम्
एताञ्जरा न सेवेत व्याधिसंघश्च दुर्जयः
ज्वरस्य सर्वरोगाणां जनकः कथितः सति
एते यथा सं चरन्ति स्वयं यान्ति च देहिषु
क्षुधि जाज्वल्यमानायामाहाराभाव एव च
तालबिल्वफलं भुक्त्वा जलपानं च तत्क्षणम्
तप्तोदकं च शिरसि भाद्रे तिक्तं विशेषतः 1.16.
सशर्करं च धान्याकं पिष्टं शीतोदकान्वितम्
बिल्वतालफलं पक्वं सर्वमैक्षवमेव च
पित्तक्षयकरं सद्यो बलपुष्टिप्रदं परम्
भोजनानन्तरं स्नानं जलपानं विना तृषा
पर्य्युषितान्नं च तक्रं च पक्वं रम्भाफलं दधि
नारिकेलोदकं रूक्षस्नानं पर्युषिते जले
खातस्नानं च वर्षासु मूलकं श्लेष्मकारकम्