कूर्मो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः
वैकुण्ठे कमलाकांतो रूपभेदाच्चतुर्भुजः
अस्यैव तेजो नित्यं च चित्ते कुर्वंति योगिनः
शृणु विप्र वर्णयामि यशोदानन्दयोस्तपः
वसूनां प्रवरो नन्दो नाम्ना द्रोणस्तपोधनः
रोहिणी सर्पमाता च कद्रूश्च सर्पकारिणी
एकदा च धरा द्रोणौ पर्वते गन्धमादने
चक्रतुश्च तपस्तत्र वर्षाणामयुतं मुने 4.9.
न ददर्श हरिं द्रोणो धरा चैव तपस्विनी
तौ मर्तुकामौ दृष्ट्वा च वाग्बभूवाशरीरिणी
जन्मांतरे वसुश्रेष्ठ दुर्दर्शं योगिनां विभुम्
श्रुत्वैवं तद्धराद्रोणौ जग्मतुः स्वालयं सुखात्
यशोदानंदयोरेवं कथितं चरितं तव
एकदा देवमाता च पुष्पोत्सवदिने सती
सुस्नाता सुंदरी देवी रत्नालंकार भूषिता
कस्तूरीबिंदुना सार्द्धं सिंदूरबिंदुसंयुतम्
गजमौक्तिकसंयुक्तं नासाग्रं सुमनोहरम्
वक्रभ्रूभंगिना युक्तं विचित्रकज्जलोज्ज्वलम् 4.9.
पक्वबिंबाधरौष्ठं च सस्मितं सुंदरं सदा
एवंभूतं मुखं दृष्ट्वा सुंदरी स्वगृहे स्थिता
शुश्राव वार्तामदितिः कश्यपं कद्रुसंयुतम्
श्रुत्वा चुकोप साध्वी सा हताशा रतिकातरा
न देवालययोग्या सा धर्मिष्ठा धर्मनाशिनी
श्रुत्वैवं सा चरद्वारा शशाप देवमातरम्
कश्यपो बोधयामास कद्रुं च सर्पमातरम्
त्यज भीतिं लभ सुखं द्रक्ष्यसि श्रीहरेर्मुखम्
वांछां पूर्णां च तस्याश्च चकार भगवान्विभुः
अदितिर्देवकी चैव सर्पमाता च रोहिणी 4.9.
रहस्यं गोपनीयं च सर्वं निगदितं मुने
अनंतस्याप्रमेयस्य सहस्रशिरसः प्रभोः