पुरा कृता या प्रतिज्ञा गोलोके राधया सह
कीदृग्वृन्दावनं नाम मण्डलं किंविधं वद
नन्दस्तपः किञ्चकार यशोदा चाथ रोहिणी
पीयूषखंडमाख्यानमपूर्वं श्रीहरेः स्मृतम्
स्वरासमण्डलक्रीडां वर्णय स्वयमेव च
श्रीकृष्णांशो भवान्साक्षाद्योगींद्राणां गुरोर्गुरुः
त्वयैव वर्णितौ पादौ विलीनौ तु युवां हरेः
नरश्च कार्त्तिकेयश्च श्रीकृष्णांशा वयं नव ।।4.9.
अहो गोलोकनाथस्य महिमा केन वर्ण्यते
सूकरो वामनः कल्किर्बौद्धः कपिलमीनकौ
कूर्मो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः
वैकुण्ठे कमलाकांतो रूपभेदाच्चतुर्भुजः
अस्यैव तेजो नित्यं च चित्ते कुर्वंति योगिनः
शृणु विप्र वर्णयामि यशोदानन्दयोस्तपः
वसूनां प्रवरो नन्दो नाम्ना द्रोणस्तपोधनः
रोहिणी सर्पमाता च कद्रूश्च सर्पकारिणी
एकदा च धरा द्रोणौ पर्वते गन्धमादने
चक्रतुश्च तपस्तत्र वर्षाणामयुतं मुने 4.9.
न ददर्श हरिं द्रोणो धरा चैव तपस्विनी
तौ मर्तुकामौ दृष्ट्वा च वाग्बभूवाशरीरिणी
जन्मांतरे वसुश्रेष्ठ दुर्दर्शं योगिनां विभुम्
श्रुत्वैवं तद्धराद्रोणौ जग्मतुः स्वालयं सुखात्
यशोदानंदयोरेवं कथितं चरितं तव
एकदा देवमाता च पुष्पोत्सवदिने सती
सुस्नाता सुंदरी देवी रत्नालंकार भूषिता
कस्तूरीबिंदुना सार्द्धं सिंदूरबिंदुसंयुतम्
गजमौक्तिकसंयुक्तं नासाग्रं सुमनोहरम्
वक्रभ्रूभंगिना युक्तं विचित्रकज्जलोज्ज्वलम् 4.9.
पक्वबिंबाधरौष्ठं च सस्मितं सुंदरं सदा
एवंभूतं मुखं दृष्ट्वा सुंदरी स्वगृहे स्थिता