उपवासांगभूतं च फलदं सिद्धिकारणम्
अन्यथा फलहानिः स्यात्कृते धारणपारणे
निशायां पारणं कुर्याद्वर्जयित्वा महानिशाम् 4.8.
सर्वेषां संमतं कुर्यादृते वै रोहिणी व्रतम्
न कुर्याद्गर्भवासं च तत्र कृत्वा व्रतं व्रती
भवेद्बुधेंदुसंयुक्ता प्राजापत्यर्क्षसंयुता
व्रतं तत्र व्रती कुर्यात्पुंसां कोटिं समुद्धरेत्
कृतेनैवोपवासेन प्रीतो भवति माधवः
फलं ददाति दैत्यारिर्जयन्तीव्रतसंभवम्
कुर्वाणो वित्तशाठ्यं च लभते सदृशं फलम्
हन्यात्पुराकृतं पुण्यं चोपवासार्जितं फलम्
तस्मात्प्रयत्नतः कुर्यात्तिथिभांते च पारणम्
तृतीयेऽह्नि मुनिश्रेष्ठ पारणं कुरुते बुधः 4.8.
लभते ब्रह्महत्यां च तत्र भुक्त्वा च नारद
पुंसामभक्ष्यं शुद्धानामोदनस्य च का कथा
नाडीनां तदुभे सन्ध्ये दिवसाद्यंतसंज्ञिते
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः
स भवेन्मातृगामी च ब्रह्महत्याशतं लभेत्
अनर्हश्चाशुचिः शश्वद्दैवे पित्र्ये च कर्मणि
कृमिभिः शूलतुल्यैश्च तीक्ष्णदंष्ट्रैश्च भक्षितः
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् 4.8.
श्वापदः शतजन्मानि सृगालः सप्त जन्म च
ततो भवेन्नरो मूको गलत्कुष्ठी सदातुरः
तदंते च भवेद्दस्युर्धर्महीनश्च गृध्रकः
ततो भवेद्देवलको ब्राह्मणश्च सदाऽशुचिः
तावद्धनानि वा दद्याद्यद्भुक्तं द्विगुणं भवेत्
कुर्याद्द्वादशसंख्याकान्यथार्थं तद्व्रते नरः व्रतोपवासपूजानां विधानमकृते च यत्
नारद उवाच जगाम स्वगृहं नन्दः किं चकार महां प्रभुः
किञ्चकार हरिस्तत्र कतिवर्षस्थितिः प्रभोः