ब्रह्मवैवर्तपुराणम्
सुस्वादु स्वच्छतोयं च वासितं गंधवस्तुना
गंधद्रव्यसमायुक्तं विष्णो तैलं सुवासितम्
सद्रत्नमणिसारेण रचितां सुमनोहराम् 4.8.
चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम्
पुष्पं सुगंधियुक्तं च संयुक्तं कुंकुमेन च
गृह्यतां स्वस्तिकोक्तं च मिष्टद्रव्यसमन्वितम्
लड्डुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु
शीतलं शर्करायुक्तं क्षीरस्वादुसुपक्वकम्
भक्त्या निवेदितमिदं गृह्यतां परमेश्वर
अबीरचूर्णं रुचिरं गृह्यतां परमेश्वर
सुप्रियः सर्वदेवानां धूपोऽयं गृह्यतां हरे
सुप्रदीपो दीप्तिकरो दीपोऽयं गृह्यतां हरे
जीवनं सर्वबीजानां पानार्थं गृह्यतां हरे 4.8.
शरीरभूषणवरं माल्यं च प्रतिगृह्यताम्
व्रतस्थानस्थितं द्रव्यं हरये देयमेव च
वंशवृद्धिकराण्येव गृह्यतां परमेश्वर
तान्पूज्य भक्तिभावेन दद्यात्पुष्पांजलित्रयम्
गणेशं कार्त्तिकेयं च ब्रह्माणं च शिवं शिवाम्
शेषं सुदर्शनं चैव पार्षदप्रवरांस्तथा ब्राह्मणेभ्यश्च नैवेद्यं दत्त्वा दद्याच्च दक्षिणाम्
कथां च जन्माध्यायोक्तां शृणुयाद्भक्ति भावतः
प्रभाते चाह्निकं कृत्वा संपूज्य श्रीहरिं मुदा
वेदार्थं च समालोच्य संहितां च पुरातनीम्
उपवासे जागरणे व्रते किं वा फलं मुने 4.8.
स एव मुख्यकालश्च तत्र जातः स्वयं हरिः
जयं पुण्यं च कुरुते जयंती तेन संस्मृता
सर्वापवादः कालोऽयं प्रधानः सर्वसंमतः
तत्र जागरणं कृत्वा यश्चोपोष्य व्रतं चरेत्
वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी अविद्धायां कऋक्षायां जातो देवकिनंदनः
वेदवेदांगगुप्तेतिविशिष्टं मंगलक्षणे
तिथ्यंते च हरिं स्मृत्वा कृत्वा देवार्चनं व्रती