तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति
स्नात्वा नित्यक्रियां कृत्वा निर्माय सूतिकागृहम्
तत्र द्रव्यं बहुविधं नाभिच्छेदनकर्तनम्
पूजाद्रव्याणि चारूणि सोपचाराणि षोडश 4.8.
जातीफलं च कंकोलं दाडिमं श्रीफलं तथा
आसनं वसनं पाद्यं मधुपर्कं तथैव च
गंधं पुष्पं च नैवेद्यं तांबूलमनुलेपनम्
पादप्रक्षालनं कृत्वा धृत्वा धौते च वाससी
घटस्यारोपणं कृत्वा संपूज्य पंच देवताः
वसुदेवं देवकीं च यशोदां नंदमेव च
रोहिणीं ब्राह्मणीं चैव अष्टमीं स्थानदेवताम्
पुष्पकं मस्तके न्यस्य पुनर्ध्यायेद्विचक्षणः
ब्रह्मणा कथितं पूर्वं कुमाराय महात्मने ।। 4.8.
बालं नीलांबुजाभमतिशयरुचिरं स्मेरवक्त्रांबुजं तं ब्रह्मेशानंतधर्मैः कतिकतिदिवसैः स्तूयमानं परं यत्
ध्यात्वा पुष्पं च दत्त्वा च तत्सर्वं च निवेदयेत्
आसनं सर्वशोभाढ्यं सद्रत्नमणिनिर्मितम्
वसनं वह्निशौचं च निर्मितं विश्वकर्मणा
पादप्रक्षालनार्थं च स्वर्णपात्रस्थितं जलम्
मधुसर्पिर्दधिक्षीरं शर्करासंयुतं परम्
दूर्वाक्षतं शुक्लपुष्पं स्वच्छतोयसमन्वितम्
सुस्वादु स्वच्छतोयं च वासितं गंधवस्तुना
गंधद्रव्यसमायुक्तं विष्णो तैलं सुवासितम्
सद्रत्नमणिसारेण रचितां सुमनोहराम् 4.8.
चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम्
पुष्पं सुगंधियुक्तं च संयुक्तं कुंकुमेन च
गृह्यतां स्वस्तिकोक्तं च मिष्टद्रव्यसमन्वितम्
लड्डुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु
शीतलं शर्करायुक्तं क्षीरस्वादुसुपक्वकम्
भक्त्या निवेदितमिदं गृह्यतां परमेश्वर
अबीरचूर्णं रुचिरं गृह्यतां परमेश्वर