त्वया सहापि गोलोकं गोपैर्गोपीभिरेव च
वैकुंठगमनं राधे नित्यस्य परमात्मनः
देवानां चैव देवीनामंशा यास्यंति स्वक्षयम्
इत्येवं कथितं सर्वं भविष्यं च शुभाशुभम्
इत्येवमुक्त्वा श्रीकृष्णः कृत्वा राधां स्ववक्षसि
उवाच श्रीहरिर्देवान्देवीं च समयोचितम् 4.6.
गच्छ पार्वति कैलासं सुताभ्यां स्वामि ना सह
भविता कलया जन्म सर्वेषां च व्रजेश्वरि
प्रणम्य श्रीहरिं देवाः स्वालयं प्रययुर्मुदा
हरिणा योजितं कर्म कर्तुं व्यग्रा महीं ययुः
उवाच राधिकां कृष्णो वृषभानुगृहं व्रज
अहं यास्यामि मथुरां वसुदेवालयं प्रिये
राधा प्रणम्य श्रीकृष्णं रक्तपंकजलोचना
स्थायंस्थायं क्वचिद्यांती गत्वागत्वा पुनः पुनः
पपौ चक्षुश्चकोराभ्यां निमेषरहिता सती
ततः प्रदक्षिणीकृत्य सप्तधा परमेश्वरी 4.6.
आजग्मुर्गोपिकानां च त्रिःसप्तशतकोटयः
गोपानां गोपिकानां च समूहैः सह राधिका
त्रयस्त्रिंशद्वयस्याभिर्गोपीभिः सह सुंदरी
हरिणा योजितं स्थानं प्रजग्मुर्नंदगोकुलम्
महीं गतायां राधायां गोपीभिः सह गोपकैः
संभाष्य गोपान्गोपीश्च नियोज्य स्वीयकर्मणि
पूर्वं यद्यदपत्यं च देवकीवसुदेवयोः
शेषांशं सप्तमं गर्भं माययाऽऽकृष्य गोकुले
फलं जयंतीयोगस्य सामान्येनैव सांप्रतम्
को वा दोषोऽप्यकरणे भोजनो वा महामुने
व्रतं पूजाविधानं च संयमस्य च सांप्रतम्
अरुणोदयवेलायां समुत्थाय परेऽहनि
प्रातःकृत्य संविधाय स्नात्वा संकल्पमाचरेत्
मन्वादिदिवसे प्राप्ते यत्फलं स्नानपूजनैः