पुरुषाद्वीर्यमुत्पन्नं वीर्यात्सन्ततिरेव च
विना देहेन क्वात्मा च क्व शरीरं विनाऽऽत्मना
न कुत्राप्यावयोर्भेदो राधे संसारबीजयोः
यथा क्षीरे च धावल्यं दाहिका च हुताशने
धावल्यदुग्धयोरैक्यं दाहिकानलयोर्यथा
मया विना त्वं निर्जीवा चादृश्योऽहं त्वया विना
विना मृदा घटं कर्तुं यथा नालं कुलालकः 4.6.
स्वयमात्मा यथा नित्यस्तथा त्वं प्रकृतिः स्वयम्
मम प्राणसमा लक्ष्मीवाणी च सर्वमंगला
समीपस्था इमे सर्वे सुरा देव्यश्च राधिके
त्यजाश्रुमोक्षणं राधे भ्रांतिं च निष्फलां सति
कलावत्याश्च जठरे मासानां नव सुन्दरि
दशमे समनुप्राप्ते त्वमाविर्भव भूतले
वायुनिःसारणे काले कलावत्याः समीपतः
अयोनिसंभवा त्वं च भविता गोकुले सति
भूमिसंस्पृष्टमात्रं मां गोकुले प्रापयिष्यति
यशोदामंदिरे मां च सानन्दं नन्दनंदनम् 4.6.
स्मृतिस्ते भविता काले वरेण मम राधिके
त्रिःसप्तशतकोटीभिर्गोपीभिर्गोकुलं व्रज
संस्थाप्य संख्यारहिता गोपीर्गोकुल एव च
अहं गोपाल सुहृदः संस्थाप्यात्रैव राधिके
व्रजे व्रजन्तु क्रीडार्थं मम संगे प्रियात्प्रियाः
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद
ब्रह्मेशशेषधर्माश्च श्रीकृष्णं तं परात्परम्
भक्त्या गोपाश्च गोप्यश्च विरहज्वरकातराः २३८ प्राणाधिकं प्रियं कांतं राधापूर्णमनोरथम्
साश्रुपूर्णातिदीनां च दृष्ट्वा राधां भयाकुलाम् 4.6.
प्राणाधिके महादेवि स्थिरा भव भयं त्यज
किं तु ते कथयिष्यामि किंचिदेवास्त्यमंगलम्
श्रीदामशापजन्येन कर्मभोगेन सुन्दरि
तत्र भारावतरणं पित्रोर्बंधनमोचनम्