करोषि मायया छन्ना मां चेन्मायेश भूतले
अनुक्षणं मम मनोमधुपो मधुसूदन
यत्रयत्र च यस्यां वा योनौ जन्म भवत्विदम्
कृष्णस्त्वं राधिकाऽहं च प्रेमसौभाग्यमावयोः
यथा तन्वा सह प्राणाः शरीरं छायया सह
चक्षुर्निमेषविच्छेदो भविता नावयोर्भुवि
मम प्राणैस्तव तनुः केन वा करुणा हरे 4.6.
स्त्रियः कतिविधाः संति पुरुषा वा पुरुष्टुत
तव देहार्धभागेन केन वाऽहं विनिर्मिता
ममात्मा मानसं प्राणास्त्वयि संस्थापिता यथा
अतो निमेषविरहादात्मनोर्विक्लवं मनः
इत्येवमुक्त्वा सा देवी तत्रैव सुरसंसदि
क्रोडे कृत्वा तु तां कृष्णो मुखं संमृज्य वाससा
श्रीकृष्ण उवाच शृणु देवि प्रवक्ष्यामि योगींद्राणां च दुर्लभम्
आधाराधेययोः सर्वं ब्रह्मांडं पश्य सुन्दरि
फलाधारं च पुष्पं च पुष्पाधारं च पल्लवम्
वृक्षाधारो ऽप्यंकुरश्च जीवशक्तिसमन्वितः 4.6.
शेषो वसुन्धराधारः शेषाधारो हि कच्छपः
ममाधारस्वरूपा त्वं त्वयि तिष्ठामि सांप्रतम्
त्वं शरीरस्वरूपाऽसि त्रिगुणाऽऽधाररूपिणी
पुरुषाद्वीर्यमुत्पन्नं वीर्यात्सन्ततिरेव च
विना देहेन क्वात्मा च क्व शरीरं विनाऽऽत्मना
न कुत्राप्यावयोर्भेदो राधे संसारबीजयोः
यथा क्षीरे च धावल्यं दाहिका च हुताशने
धावल्यदुग्धयोरैक्यं दाहिकानलयोर्यथा
मया विना त्वं निर्जीवा चादृश्योऽहं त्वया विना
विना मृदा घटं कर्तुं यथा नालं कुलालकः 4.6.
स्वयमात्मा यथा नित्यस्तथा त्वं प्रकृतिः स्वयम्
मम प्राणसमा लक्ष्मीवाणी च सर्वमंगला
समीपस्था इमे सर्वे सुरा देव्यश्च राधिके