दुर्गांतराभिप्रायं च बुबुधे शंकरः स्वयम्
दुर्गां निर्जनमाहूय तामुवाच हरः स्वयम्
अहं ब्रह्मा च विष्णुश्च ब्रह्मैकं च सनातनम्
एका प्रकृतिः सर्वेषां माता त्वं सर्वरूपिणी
मम वक्षसि दुर्गा त्वं निबोधाध्यात्मकं सति
सुचिरं तपसा लब्धो नाथस्त्वं जगतां मया
मादृशीं किंकरी नाथ न परित्यक्तुमर्हसि
तव वाक्यं महादेव करिष्याम्येव पालनम् 4.6.
इत्येवं वचनं श्रुत्वा विरराम महेश्वरः
तत्प्रतिज्ञापालनाय पार्वती जांबवद्गृहे
ललाभ भारते जन्म निंदिते भाल्लुके गृहे
हिमालयांशो भल्लूको जांबवान्नाम किंकरः
रामस्य वरदानेन चिरंजीवी श्रिया युतः
सर्वेषां च सुराणां वै वंशा गच्छंतु भूतलम्
कमलाकलया सर्वा भवंतु नृपकन्यकाः
धर्मोऽयमंशरूपेण पांडुपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च स्वर्वैद्यांशसमुद्भवौ । सृर्यांशः कर्णवीरश्च विदुरः स यमः स्वयम् ।। 4.6.
दुर्योधनः कलेरंशः समुद्रांशश्च शंतनुः
हुताशनांशो भगवान्धृष्टद्युम्नो महाबलः
वसुदेवः कश्यपांशोऽप्यदित्यंशा च देवकी
द्रौपदी कमलांशा च यज्ञकुंडसमुद्भवा
देवा गच्छंतु पृथिवीमंशेन भारहारकाः
इत्येवमुक्त्वा भगवान्विरराम च नारद
कृष्णस्य वामे वाग्देवी दक्षिणे कमलालया
गोप्यो गोपाश्च परितो राधा वक्षःस्थलस्थिता
शृणु नाथ प्रवक्ष्यामि किंकरीवचनं प्रभो
चक्षुर्निमीलनं कर्तुमशक्ता तव दर्शने 4.6.
कियत्कालांतरेणैव मेलनं मे त्वया सह
निमेषं च युगशतं भविता मे त्वया विना
मातरं पितरं बंधुं भ्रातरं भगिनीं सुतम्