कंसदर्शन मात्रेण गमिष्यसि शिवांतिकम् 4.6.
इत्युक्त्वा श्रीहरिस्तूर्णमुवाच च षडाननम्
जांबवत्याश्च गर्भे च लभ जन्म सुरेश्वर
भारहारं करिष्यामि वसुधायाश्च निश्चितम्
तस्थुर्देवाश्च देव्यश्च गोपा गोप्यश्च नारद पुटांजलिर्जगत्कांतमुवाच विन यान्वितः
आज्ञां कुरु महाभाग कस्य कुत्र स्थलं भुवि
स भृत्यः सर्वदा भक्त ईश्वराज्ञां करोति यः
कुत्र कस्याभिदेयं च विषयं च महीतले
यत्र यस्यावकाशं च कथयामि विधानतः
शंबरस्य गृहे या च छायारूपेण संस्थिता 4.6.
भारती शोणितपुरे बाणपुत्री भविष्यति
मायया गर्भसंकर्षान्नाम्ना संकर्षणः प्रभुः
अर्द्धांशेनैव तुलसी लक्ष्मणा राज कन्यका
वसुंधरा सत्यभामा शैब्या देवी सरस्वती
सूर्यपत्नी रत्नमाला कलया च जगत्प्रभोः
दुर्गांशार्द्धाज्जांबवती महिषीणां दश स्मृताः
कैलासे शंकराज्ञा च बभूव पार्वतीं पुरा आलिंगनं देहि कांते नास्ति दोषो ममा ज्ञया
कथं शिवाज्ञा तां देवीं बभूव राधिकापते
श्वेतद्वीपात्स्वयं विष्णुर्जगाम शंकरालये
दृष्ट्वा गणेशं मुदितः समुवास सुखासने 4.6.
किरीटिनं कुंडलिनं पीतांबरधरं वरम्
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम्
रत्न सिंहासनस्थं च पार्षदैः परिवेष्टितम्
तं दृष्ट्वा पार्वती विष्णुं प्रसन्नवदनेक्षणा
अतीव सुन्दरं रूपं दर्शंदर्शं पुनःपुनः
परमाद्भुतवेषं च सस्मिता वक्रचक्षुषा
क्षणं ददर्श पञ्चास्यं शुभ्रवर्णं त्रिलोचनम्
क्षणं ददर्श श्यामं तमेकास्यं च द्विलोचनम्
मदंशाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः 4.6.
दृष्ट्वा तं पार्वती भक्त्या पुलकांचितविग्रहा