सद्रत्नसारकेयूरकरकंकणभूषिताम् 4.6.
नितंबकठिनश्रोणीं पीनोन्नतकुचानताम्
कज्जलोज्जलरेखाक्तशरत्पंकजलोच नाम्
मुक्तापंक्तिप्रभामुष्टदंतराजिविराजिताम्
पक्षींद्रचंचुनासाग्रगजेंद्रमौक्तिकान्विताम्
सिंहपृष्ठसमारूढां सुताभ्यां सहितां मुदा
सुताभ्यां सहिता देवी समुवा स वराननाः
ननाम शंकरं धर्ममनंतं कमलोद्भवम्
आशिषं च ददुर्देवा वासयामासुरंतिके
तस्थुर्देवाः सभामध्ये देवस्य पुरतो हरेः
उवाच कमलां कृष्णः स्मेराननसरोरुहः 4.6.
वैदर्भ्या उदरे जन्म लभ देवि सना तनि
ता देव्यः पार्वतीं दृष्ट्वा समुत्थाय त्वरान्विताः
विप्रेंद्र पार्वतीलक्ष्मीवागधिष्ठातृदेवताः
ताश्च संभाषयामासुः संप्रीत्या गोपकन्यकाः
श्रीकृष्णः पार्वतीं तत्र समुवाच जगत्पतिः
उदरे च यशोदायाः कल्याणी नंदरेतसा
ग्रामे ग्रामे च पूजां ते कारयिष्यामि भूतले
तत्राधिष्ठातृदेवीं त्वां पूजयिष्यंति मानवाः
त्वद्भूमिस्पर्शमात्रेण सूतिकामंदिरे शिवे
कंसदर्शन मात्रेण गमिष्यसि शिवांतिकम् 4.6.
इत्युक्त्वा श्रीहरिस्तूर्णमुवाच च षडाननम्
जांबवत्याश्च गर्भे च लभ जन्म सुरेश्वर
भारहारं करिष्यामि वसुधायाश्च निश्चितम्
तस्थुर्देवाश्च देव्यश्च गोपा गोप्यश्च नारद पुटांजलिर्जगत्कांतमुवाच विन यान्वितः
आज्ञां कुरु महाभाग कस्य कुत्र स्थलं भुवि
स भृत्यः सर्वदा भक्त ईश्वराज्ञां करोति यः
कुत्र कस्याभिदेयं च विषयं च महीतले
यत्र यस्यावकाशं च कथयामि विधानतः
शंबरस्य गृहे या च छायारूपेण संस्थिता 4.6.