मणींद्रसारसंयुक्तं वह्निशुद्धांशुकान्वितम् 4.6.
सद्रत्नसारकलशसमूहेन विराजितम्
सहस्रचक्रसंयुक्तं मनोयायि मनोहरम्
मुक्तामाणिक्यवज्राणां समूहेन समुज्ज्वलम्
देवानां दानवानां च रथानां प्रवरं मुने
पंचाशद्योजनोर्ध्वं च चतुर्योजनविस्तृतम्
तत्रस्थां ददृशुर्देवीं रत्नालंकारभूषिताम्
तेजःस्वरूपा मतुलां मूलप्रकृतिमीश्वरीम्
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम्
रत्नेन्द्रसाररचितक्वणन्मञ्जीररंजिताम्
सद्रत्नसारकेयूरकरकंकणभूषिताम् 4.6.
नितंबकठिनश्रोणीं पीनोन्नतकुचानताम्
कज्जलोज्जलरेखाक्तशरत्पंकजलोच नाम्
मुक्तापंक्तिप्रभामुष्टदंतराजिविराजिताम्
पक्षींद्रचंचुनासाग्रगजेंद्रमौक्तिकान्विताम्
सिंहपृष्ठसमारूढां सुताभ्यां सहितां मुदा
सुताभ्यां सहिता देवी समुवा स वराननाः
ननाम शंकरं धर्ममनंतं कमलोद्भवम्
आशिषं च ददुर्देवा वासयामासुरंतिके
तस्थुर्देवाः सभामध्ये देवस्य पुरतो हरेः
उवाच कमलां कृष्णः स्मेराननसरोरुहः 4.6.
वैदर्भ्या उदरे जन्म लभ देवि सना तनि
ता देव्यः पार्वतीं दृष्ट्वा समुत्थाय त्वरान्विताः
विप्रेंद्र पार्वतीलक्ष्मीवागधिष्ठातृदेवताः
ताश्च संभाषयामासुः संप्रीत्या गोपकन्यकाः
श्रीकृष्णः पार्वतीं तत्र समुवाच जगत्पतिः
उदरे च यशोदायाः कल्याणी नंदरेतसा
ग्रामे ग्रामे च पूजां ते कारयिष्यामि भूतले
तत्राधिष्ठातृदेवीं त्वां पूजयिष्यंति मानवाः
त्वद्भूमिस्पर्शमात्रेण सूतिकामंदिरे शिवे