स ईशश्चतुरो वेदान्ससृजे मङ्गलालयान्
ऋग्यजुःसामाथर्वाख्यान्दृष्ट्वा वेदान्प्रजापतिः
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः 1.16.
भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम्
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च
धन्वन्तरिर्दिवो दासः काशीराजोऽश्विनीसुतौ
जाबालो जाजलिः पैलः करथोऽगस्त्य एव च
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोहरम्
चिकित्सादर्पणं नाम दिवोदासश्चकार सः
चिकित्सासारतन्त्रं च श्रमघ्नं चाश्विनीसुतौ
चकार सहदेवश्च व्याधिसिन्धुविमर्दनम्
च्यवनो जीवदानं च चकार भगवानृषिः
सर्वसारं चन्द्रसुतो जाबालस्तन्त्रसारकम् 1.16.
पैलो निदानं करथस्तन्त्रं सर्वधरं परम्
चिकित्साशास्त्रबीजानि त न्त्राण्येतानि षोडश
मथित्वा ज्ञानमन्त्रेणैवायुर्वेदपयोनिधिम्
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम्
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
आयुर्वेदस्य विज्ञाता चिकित्सासु यथार्थवित्
जनकः सर्वरोगाणां दुर्वारो दारुणो ज्वरः
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः
मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः
वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च 1.16.
पाण्डुश्च कामलः कुष्ठः शोथः प्लीहा च शूलकः
मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारजः
भ्रमरी सन्निपातश्च विषूची दारुणी सति
मृत्युकन्यासुताश्चैते जरा तस्याश्च कन्यका
एते चोपायवेत्तारं न गच्छन्ति च संयतम्
चक्षुर्जलं च व्यायामः पादाधस्तैलमर्दनम्
वसन्ते भ्रमणं वह्निसेवां स्वल्पां करोति यः