वेणुवीणाग्रंथहस्तां भक्तानुग्रहकातराम्
अपरां दक्षिणे रम्यां शतचंद्रसमप्रभाम् 4.6.
सद्रत्नकुण्डलाभ्यां च सुकपोलविराजि ताम्
अमूल्यरत्नकेयूरकरकंकणशोभिताम्
मणींद्रकिंकिणीयुक्तमध्यदेशसमन्विताम्
प्रफुल्ल मालतीमालासंयुक्तकबरीयुताम्
कस्तूरीबिंदुसंयुक्तसिन्दुरतिलकान्विताम्
सहस्रदलसंसक्तलीलाकमलसंयुताम्
अवरुह्य रथात्तूर्ण सस्त्रीकः सहपार्षदः
देवा गोप्यश्च गोपाश्च तस्थुः प्रांजलयो मुदा
गत्वा नारायणो देवो विलीनः कृष्णविग्रहे
एतस्मिन्नन्तरे तत्र शातकुंभमयाद्रथात् 4.6.
आजगाम चतुर्बाहुर्वनमालाविभूषितः
सर्वालंकारशोभा ढ्यः सूर्यकोटिसमप्रभः
संविलीने हरेरंगे श्वेतद्वीपनिवासिनि
शुद्धस्फटिकसंकाशो नाम्ना संकर्षणः स्मृतः
आगतं तुष्टुवुः सर्वे दृष्ट्वा तं विष्णुवि ग्रहम्
सहस्रमूर्धा भक्त्या च प्रणनाम च नारद
लीनोऽहं कृष्णपादाब्जे बभूव फाल्गुनोऽवरः
एतस्मिन्नंतरे देवा ददृशू रथमुत्तमम्
मणींद्रसारसंयुक्तं वह्निशुद्धांशुकान्वितम् 4.6.
सद्रत्नसारकलशसमूहेन विराजितम्
सहस्रचक्रसंयुक्तं मनोयायि मनोहरम्
मुक्तामाणिक्यवज्राणां समूहेन समुज्ज्वलम्
देवानां दानवानां च रथानां प्रवरं मुने
पंचाशद्योजनोर्ध्वं च चतुर्योजनविस्तृतम्
तत्रस्थां ददृशुर्देवीं रत्नालंकारभूषिताम्
तेजःस्वरूपा मतुलां मूलप्रकृतिमीश्वरीम्
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम्
रत्नेन्द्रसाररचितक्वणन्मञ्जीररंजिताम्