दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि
तथाऽचिरं ते नश्यंति यथा वह्नौ तृणानि च 4.6.
यास्यामि पृथिवीं देवा यात यूयं स्वमालयम्
इत्युक्त्वा जगतां नाथो गोपाना हूय गोपिकाः
गोपा गोप्यश्च शृणुत यात नंदव्रजं परम्
वृषभानुप्रिया साध्वी नंदगोपकलावती
पितॄणां मानसी कन्या धन्या मान्या च योषिताम्
तस्या गृहे जन्म लभ शीघ्रं नंदव्रजं व्रज
त्वं मे प्राणाधिका राधे तव प्राणाधिकोऽप्यहम्
श्रुत्वैवं राधिका तत्र रुरोद प्रेमविह्वला
जनुर्लभत गोपाश्च गोप्यश्च पृथिवीतले
एतस्मिन्नंतरे सर्वे ददृशू रथमुत्तमम् 4.6.
श्वेतचामरलक्षेण शोभितं दर्पणायुतैः
सद्रत्नकलशानां च सहस्रेण सुशोभितम्
पार्षदप्रवरैयुक्तं शात कुंभमयं शुभम्
तत्रस्थं पुरुषं श्यामं सुन्दरं कमनीयकम्
किरीटिनं कुण्डलिनं वनमालाविभूषितम्
चतुर्भुजं स्मेरवक्त्रं भक्तानुग्रहकातरम्
देवीं तद्वामतो रम्यां शुक्लवर्णां मनोहराम्
शरत्पार्वणचंद्रास्यां शरत्पंकजलोचनाम्
वेणुवीणाग्रंथहस्तां भक्तानुग्रहकातराम्
अपरां दक्षिणे रम्यां शतचंद्रसमप्रभाम् 4.6.
सद्रत्नकुण्डलाभ्यां च सुकपोलविराजि ताम्
अमूल्यरत्नकेयूरकरकंकणशोभिताम्
मणींद्रकिंकिणीयुक्तमध्यदेशसमन्विताम्
प्रफुल्ल मालतीमालासंयुक्तकबरीयुताम्
कस्तूरीबिंदुसंयुक्तसिन्दुरतिलकान्विताम्
सहस्रदलसंसक्तलीलाकमलसंयुताम्
अवरुह्य रथात्तूर्ण सस्त्रीकः सहपार्षदः
देवा गोप्यश्च गोपाश्च तस्थुः प्रांजलयो मुदा