महत्क्षुद्रं च यत्कर्म सर्वं कालकृतं सुराः
परिपक्वफलाः काले काले पक्वफलान्विताः 4.6.
स्वकर्मफलनिष्ठं च सर्वकालेऽप्युपस्थितम्
काले कार्यवशात्सर्वे भवंत्येवाप्रियाः प्रियाः
स्वकर्मफलपाकेन सर्वे कालवशं गताः
पृथिव्यां तत्क्षणेनैव सप्तमन्वतरं गतम्
कालचक्रं भ्रमत्येव मदीयं च दिवानिशम्
कीर्तिः पृथ्व्यां पुण्यमद्य कथामात्रावशेषितम्
बभूवुर्बहवो भूमौ महाबल पराक्रमाः
उपस्थितोऽपि कालोऽयं वातो वाति निरंतरम्
व्याधयः संति देहेषु मृत्युश्चरति जंतुषु
ब्राह्मण्यनिष्ठा विप्राश्च तपोनिष्ठास्तपोधनाः 4.6.
ते सर्वे मद्भयाद्भीताः स्वकर्मधर्मतत्पराः
देवाः कालस्य कालोऽहं विधाता धातुरेव च
ममाज्ञयाऽयं संहर्ता नाम्रा तेन हरः स्मृतः
ब्रह्मादितृणपर्यन्तं सर्वेषामहमीश्वरः
अहं यान्संहरिष्यामि कस्तेषामपि रक्षिता
सर्वेषामपि संहर्ता स्रष्टा पाताऽहमेव च
भक्ता ममानुगा नित्यं मत्पादार्चनतत्पराः
सर्वे नश्यंति ब्रह्माण्डे प्रभवंति पुनःपुनः
अतो विपश्चितः सर्वे दास्यं वांछंति नो वरम्
जन्ममृत्युजराव्याधि भयं च यमयातना 4.6.
भक्ता न लिप्ताः पापेषु पुण्येषु सर्वक र्मिणः
अहं प्राणश्च भक्तानां भक्ताः प्राणा ममापि च
चक्रं सुदर्शनं नाम षोडशारं सुतीक्ष्णकम्
भक्तान्तिके तु तच्चक्रं दत्त्वा रक्षार्थमीप्सितम्
न मे स्वास्थ्यं च वैकुंठे गोलोके राधिकांतिके
प्राणेभ्यः प्रेयसी राधा स्थितोरसि दिवानिशम्
भक्तदत्तं च यद्द्रव्यं भक्त्या ऽश्नामि सुरेश्वराः
स्त्रीपुत्रस्वजनांस्त्यक्त्वा ध्यायंते मामहर्निशम्