ईषद्धास्यप्रसन्नास्यां शरत्पंकजलोचनाम्
बंधुजीवप्रभामुष्टाधरौष्ठरु चिराननाम् 4.6.
मणींद्राणां प्रभामोषनखराजिविराजिताम्
अमूल्यरत्नसाराणां रशनाश्रोणिभूषिताम्
महामणींद्रसाराणां किङ्किणीमध्यसंयुताम्
रत्नेंद्रसाररचितकपोलोज्ज्वलकुण्डलाम्
खगेंद्रचंचुनासाग्र गजेंद्रमौक्तिकान्विताम्
मालया कौस्तुभेंद्राणां वक्षःस्थलसुशोभिताम्
रत्नांगुलीय निकरैः करांगुलिविभूषिताम्
सूक्ष्मसूत्राकृतै रम्यैर्भूषिता शंखभूषणैः
प्रतप्तस्वर्णवर्णाभामाच्छाद्य चारुविग्रहाम्
भूषितां भूषणैः सर्वैः सौंदर्येण विभूषितैः तुष्टुवुस्ते सुराः सर्वे पूर्णसर्वमनोरथाः।।4.6.
तव चरणसरोजे मन्मनश्चंचरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे
विषयमतिविनिंद्यं सृष्टिसंहाररूपमपनय तव भक्तिं देहि पादारविंदे
तव निजजनसार्द्धं संगमो मे मदीश भवतु विषयबंधच्छेदने तीक्ष्णखङ्गः। तव चरणसरोजे स्थानदानैकहेतुर्जनुषि जनुषि भक्तिं देहि पादारविन्दे
इत्येवं स्तवनं कृत्वा परिपूर्णैकसानसाः
सुराणां स्तवनं श्रुत्वा तानु वाच कृपानिधिः
शिवाश्रयाणां कुशलं प्रष्टुं युक्तं न सांप्रतम्
निश्चिंता भवतात्रैव का चिंता वो मयि स्थिते
युष्माकं यमभिप्रायं सर्वं जानामि निश्चितम्
महत्क्षुद्रं च यत्कर्म सर्वं कालकृतं सुराः
परिपक्वफलाः काले काले पक्वफलान्विताः 4.6.
स्वकर्मफलनिष्ठं च सर्वकालेऽप्युपस्थितम्
काले कार्यवशात्सर्वे भवंत्येवाप्रियाः प्रियाः
स्वकर्मफलपाकेन सर्वे कालवशं गताः
पृथिव्यां तत्क्षणेनैव सप्तमन्वतरं गतम्
कालचक्रं भ्रमत्येव मदीयं च दिवानिशम्
कीर्तिः पृथ्व्यां पुण्यमद्य कथामात्रावशेषितम्
बभूवुर्बहवो भूमौ महाबल पराक्रमाः
उपस्थितोऽपि कालोऽयं वातो वाति निरंतरम्