सर्वेशं यदनीशं यत्सर्वादि यदनादि यत्
अहं विधाता जगतो वेदानां जनकः स्वयम्
सेवया तव धर्मोऽयं पालने च निरूपितः
निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादांभोजसेवया १०७ ब्रह्मांडे बिंबसदृशे भूत्वा विषयिणो वयम्
यथा न संख्या रेणूनां तथा तेषामणीयसाम्
एकैकलोमविवरे ब्रह्मांडमेकमेककम् 4.5.
ध्यायंते योगिनः सर्वे तवैतद्रूपमीप्सितम्
किशोरं सुंदरतरं यक्षं कमनीयकम्
नवीनजलदश्यामपीतांबरधरं वरम्
मयूरपिच्छचूडं च मालतीजालमंडितम्
अमूल्यरत्नसाराणां सारभूषणभूषितम्
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचंद्रकम्
पक्वदाडिमबीजाभदंतपंक्तिमनोहरम्
गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम्
इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः
ननाम भूयोभूयश्च साश्रुपूर्णविलोचनः 4.5.
व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने
पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत्
सुरासुरमुनींद्राणां दुर्लभं दास्यमेव च
इहैव विष्णुतुल्यश्च विख्यातः पूजितो धुवम्
सर्वसौभाम्यसंयुक्तं यशसा पूरितं जगत्
पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः
श्रीनारायण उवाच ध्यात्वा स्तुत्वा च तिष्ठंतो देवास्ते तेजसः पुरः
सजलांभोदवर्णाभं सस्मितं सुमनोहरम्
गंडस्थलकपोलाभ्यां ज्वलन्मकर कुण्डलम्
वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितम्
भूषितं भूषणै रम्यैस्तद्रूपेणैव भूषितैः
प्रसन्नेक्षणपश्यंतं भक्तानुग्रहकातरम्
कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलम्
पश्यंतं सस्मितं कांतं पश्यंतीं वक्रचक्षुषा