मंगलं मंगलानां च मंगलं मंगलप्रदम्
स्थितं सर्वत्र निर्लिप्तमात्मरूपं परात्परम्
सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम्
तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम्
गुणत्रयविभागाय रूपत्रयधरं परम्
सर्वाधारं सर्वरूपं सर्वबीजमबीजकम्
लक्ष्यं षङ्गुणरूपं च वर्णनीयं विचक्षणैः 4.5.
अशरीरं विग्रहवदिंद्रियं यदतींद्रियम्
गमनार्हमपादं यदचक्षुः सर्वदर्शनम्
वेदे निरूपितं वस्तु सन्तः शक्ताश्च वर्णितुम्
सर्वेशं यदनीशं यत्सर्वादि यदनादि यत्
अहं विधाता जगतो वेदानां जनकः स्वयम्
सेवया तव धर्मोऽयं पालने च निरूपितः
निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादांभोजसेवया १०७ ब्रह्मांडे बिंबसदृशे भूत्वा विषयिणो वयम्
यथा न संख्या रेणूनां तथा तेषामणीयसाम्
एकैकलोमविवरे ब्रह्मांडमेकमेककम् 4.5.
ध्यायंते योगिनः सर्वे तवैतद्रूपमीप्सितम्
किशोरं सुंदरतरं यक्षं कमनीयकम्
नवीनजलदश्यामपीतांबरधरं वरम्
मयूरपिच्छचूडं च मालतीजालमंडितम्
अमूल्यरत्नसाराणां सारभूषणभूषितम्
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचंद्रकम्
पक्वदाडिमबीजाभदंतपंक्तिमनोहरम्
गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम्
इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः
ननाम भूयोभूयश्च साश्रुपूर्णविलोचनः 4.5.
व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने
पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत्
सुरासुरमुनींद्राणां दुर्लभं दास्यमेव च
इहैव विष्णुतुल्यश्च विख्यातः पूजितो धुवम्