पीनश्रोणिभरार्तैश्च मुकुंदपदमानसैः
लसद्रमणिरत्नैश्च वेदिकायुग्मशोभितम्
सिंदूराकारमणिभिर्मध्यस्थलविराजितैः
तत्संस्पर्शैर्गंधवाहैः सर्वत्र सुरभीकृतम्
श्रीकृष्णचरणांभोजदर्शनैकमनोरथाः
भक्त्युद्रेकादश्रुपूर्णाः किंचिन्नम्रात्मकंधराः
मंदिराणां च मध्यस्थं चतुःशालं मनोहरम्
नानारत्नमणिस्तंभैर्वज्रयुक्तैश्च भूषितम् 4.5.
मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः
पट्टसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितैः
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम्
पर्णदूर्वाक्षतैर्लाजैर्निर्मंछनविभूषितैः
पारिजातप्रसूनानां मालायुक्तैर्विराजितम्
सर्वानिर्वचनीयं च यद्द्रव्यमनिरूपितम्
पारिजातप्रसूनानां मालाजालैः सुशोभितम्
कोटिशो रत्नकुंभाश्च रत्नपात्राणि नारद
नानाप्रकारवाद्यानां कलनादैर्निनादितम्
मोहितं वाद्यशब्दैश्च मृदंगानां च नारद ।।4.5.
राधासखीनां गोपीनां वृंदैर्वृंदैर्विराजितम्
एवमभ्यंतरं दृष्ट्वा बभूवुर्विस्मिताः सुराः।। । शुश्रुवुर्मधुरं गीतं ददृशुर्नृत्यमुत्तमम्
तत्र तस्थुः सुराः सर्वे ध्यानैकतानमानसाः
धनुःशतप्रमाणं च परितो वर्तुलाकृतिम्
चित्रपुत्तलिकापुष्पचित्रकाननभूषितम्
तेजोमुषं च सर्वेषां महाश्रमविवर्जितम्
दृष्ट्वा तेजःस्वरूपं च ते देवा ध्यानतत्पराः
परमानन्दसंयोगादश्रुपूर्णविलोचनाः
नत्वा तेजःस्वरूपं च तमीशं त्रिदशेश्वराः 4.5.
ध्यात्वैवं जगतां धाता बभूव संपुटांजलिः
भक्त्युद्रेकात्प्रतुष्टाव ध्यानैकतानमानसः
कारणं सर्वभूतानां तेजोरूपं नमाम्यहम्