तं संभाष्य ययुर्द्वारं द्वादशाख्यं सुरा मुदा
सर्वेषां दुर्लभं चित्रमदृश्यमश्रुतं मुने
द्वारे नियुक्ता ददृशुर्देवा गोपांगना वराः
पीतवस्त्रपरीधानाः कबरीभारभूषिताः
रत्नकंकणकेयूररत्ननूपुरभूषिताः
चन्दनागुरु कस्तूरीकुंकुमद्रवचर्चिताः
गोपीनां शतकोटीनां श्रेष्ठाः प्रेष्ठा हरेरपि
संभाष्य ता मुदा युक्ता ययुर्द्वारातरं मुने 4.5.
गोपांगनानां श्रेष्ठाश्च ददृशुः सुमनोहराः
सर्वाः सौभाग्ययुक्ताश्च राधिकायाः प्रियाश्च ताः
एवं द्वारत्रयं दृष्ट्वा स्वप्ना ज्ञानाद्भुताश्रुतम्
तास्ताः संभाष्य देवास्ते विस्मिता ययुरीश्वराः
सर्वासां च प्रधानं च गोप्यं गोपांगनागणैः
तेषामनिर्वचनीयैर्नानागुणसमन्वितैः
रत्नकंकणकेयूरत्ननूपुरभूषितैः
रत्नकुंडलयुग्मेन गंडस्थलविराजितैः
शरत्पार्वणपद्मानां प्रभां मुष्णन्मुखेंदुभिः
पक्वबिंबाधरोष्ठैश्च स्मेराननसरोरुहैः 4.5.
चारुचंपकवर्णाभिर्मध्यस्थलकृशैर्मुने
खगेंद्रचारुचंचूनां शोभामुष्णाभिरेव च
पीनश्रोणिभरार्तैश्च मुकुंदपदमानसैः
लसद्रमणिरत्नैश्च वेदिकायुग्मशोभितम्
सिंदूराकारमणिभिर्मध्यस्थलविराजितैः
तत्संस्पर्शैर्गंधवाहैः सर्वत्र सुरभीकृतम्
श्रीकृष्णचरणांभोजदर्शनैकमनोरथाः
भक्त्युद्रेकादश्रुपूर्णाः किंचिन्नम्रात्मकंधराः
मंदिराणां च मध्यस्थं चतुःशालं मनोहरम्
नानारत्नमणिस्तंभैर्वज्रयुक्तैश्च भूषितम् 4.5.
मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः
पट्टसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितैः