द्वारे नियुक्तं ददृशुः सूर्यभानुं च नारद
मणिकुण्डलयुग्मेन कपोलस्थलराजितम्
नवलक्षेण गोपानां वेष्टितं च नृपेंद्रवत्
तेभ्यो विलक्षणं रम्यं सुदीप्तं मणितेजसा
द्वारे नियुक्तं ददृशुर्वसुभानुं व्रजेश्वरम्
रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
तं संभाष्य ययुर्देवा पञ्चमं द्वारमेव च
द्वारपालं च ददृशुर्देवभानुं च तत्र वै
मयूरपिच्छचूडं च रत्नमालाविभूषितम् 4.5.
चंदनागरुकस्तूरीकुङ्कुमद्रवचर्चितम्
तं वेत्रपाणिं संभाष्य ययुर्देवा मुदाऽन्विताः
वज्रभित्तियुग्मयुक्ते पुष्पमाल्यविभूषिते
नानालंकारशोभाढ्यं दशलक्षप्रजान्वितम्
तूर्णं सुरास्तं सभाष्य ययुर्द्वारं च सप्तमम्
द्वारे नियुक्तं ददृशू रत्नभानुं हरेः प्रियम् भूषितं भूषणै रम्यैर्मणिरत्नमनोहरैः
गोपैर्द्वादशलक्षैश्च राजेंद्रमिव राजितम्
तं वेत्रहस्तं संभाष्य जग्मुर्देवेश्वरा मुदा
दौवारिकं ते ददृशुः सुपार्श्वं सुमनोहरम्
बन्धुजीवाधरोष्ठं च रत्नकुण्डलमंडितम् 4.5.
गोपैर्द्वादशलक्षैश्च किशोरैश्च समन्वितम्
वज्रसद्रत्नरचितं चतुर्वेदिसमन्वितम्
द्वारपालं च ददृशुः सुबलं ललिताकृतिम्
वज्रैर्द्वादशलक्षैश्च संयुक्तं सुमनोहरम्
विशिष्टं दशमं द्वारं दृष्ट्वा ते विस्मयं ययुः
ददृशुर्द्वारपालं च सुदामानं च सुन्दरम्
गोपविंशतिलक्षाणां समूहैः परिवारितम्
द्वारमेकादशाख्यं च सुचित्रं महदद्भुतम्
अमूल्यरत्नभूषाभिर्भूषितं सुमनोहरम् 4.5.
गण्डस्थलकपोलार्हसद्रत्नकुण्डलोज्ज्वलम्
प्रफुल्लमालतीमालाजालैः सर्वांगभूषितम्