यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः
ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः
यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भयात्
संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात्
राशि चक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात्
यस्याज्ञया च तरवः पुष्पाणि च फलानि च
यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा 1.15.
सहसा मोहिता माया मायया यस्य सन्ततम्
यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि
यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट्
सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः
सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः
इत्युक्त्वा कालपुरुषो विरराम च शौनक
ब्राह्मण उवाच कस्तेऽधुना च सन्देहस्तं पृच्छ कन्यके शुभे
ब्राह्मणस्य वचः श्रुत्वा हृष्टा मालावती सती
मालावत्युवाच तत्कारणं च विविधं सर्वं वेदे निरूपितम्
यतो न सञ्चरेद्व्याधिर्दुर्निवारोऽशुभावहः
यद्यत्पृष्मपृष्टं वा ज्ञातमज्ञातमेव वा
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः
ब्राह्मण उवाच वेदवेदांगबीजस्य बीजं श्रीकृष्णमीश्वरम्
स ईशश्चतुरो वेदान्ससृजे मङ्गलालयान्
ऋग्यजुःसामाथर्वाख्यान्दृष्ट्वा वेदान्प्रजापतिः
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः 1.16.
भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम्
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च
धन्वन्तरिर्दिवो दासः काशीराजोऽश्विनीसुतौ
जाबालो जाजलिः पैलः करथोऽगस्त्य एव च
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोहरम्
चिकित्सादर्पणं नाम दिवोदासश्चकार सः
चिकित्सासारतन्त्रं च श्रमघ्नं चाश्विनीसुतौ