श्रीगणेशाय नमः अथ ब्रह्मवैवर्ते ब्रह्मखण्डम् सरस्वतीश्रीगिरिजादिकाश्च यं नमन्ति देव्यः प्रणमामि तं विभुम
स्थूलास्तनूर्विदधतं त्रिगुणं विराजं विश्वानि लोमविवरेषु महान्तमाद्यम्
ध्यायन्ते ध्याननिष्ठाः सुरनरमनवो योगिनो योगरूढाः सन्तः स्वप्नेऽपि सन्तं कतिकतिजनिभिर्यं न पश्यन्ति तप्त्वा
वन्दे कृष्णं गुणातीतं परं ब्रह्माच्युतं यतः
परं कृष्णकथोपेतं पुराणं श्रुति संमतम्
सर्वमङ्गलबीजं च सर्वदा मङ्गलप्रदम्
हरिभक्तिप्रदं शश्वत्सुखदं मोक्षदं भवात्
पप्रच्छ सुविनीतं च सुप्रीतो मुनिसंसदि
किमस्माकं पुण्यदिनमद्य त्वद्दर्शनेन च
वयमेव कलौ भीता विशिष्टज्ञानवर्जिताः 1.1.
भवान्साधुर्महाभागः पुराणेषु पुराणवित्
श्रीकृष्णे निश्चला भक्तिर्यतो भवति शाश्वती
गरीयसी या साक्षाच्च कर्ममूलनिकृन्तनी
भवदावाग्निदग्धानां पीयूष वृष्टिवर्षिणी
यत्रादौ सर्वबीजं च परं ब्रह्मनिरूपणम्
साकारं वा निराकारं परमात्मस्वरूपकम्
ध्यायन्ते वैष्णवाः किंवा शान्ताश्च योगिनस्तथा
प्रकृतेश्च य आकारो यत्र वत्सनिरूपितः
गोलोकवर्णनं यत्र यत्र वैकुण्ठवर्णनम्
अंशानां च कलानां च यत्र सौते निरूपणम् 1.1.
निगूढं जन्म येषां वा देवानां देवयोषिताम्
के वांऽशाः प्रकृतेश्चापि कलाः का वा कलाकलाः
दुर्गा सरस्वती लक्ष्मी सावित्रीणाञ्च वर्णनम्
जीवकर्मविपाकश्च नरकाणाञ्च वर्णनम्
येषाञ्च जीविनां यद्यत्स्थानं यत्र शुभाशुभम्
जीविनां कर्मणो यस्माद्योयो रोगो भवेदिह
मनसा तुलसी काली गङ्गा पृध्वी वसुन्धरा
शालिग्रामशिलानाञ्च दानानाञ्च निरूपणम्
गणेश्वरस्य चरितं यत्र तज्जन्म कर्म च
यदपूर्वमुपाख्यानमश्रुतं परमाद्भुतम् 1.1.