मर्जाराणां सृगालानां कुक्कुटानां व्रजेश्वर । व्याघ्राणामपि सिंहानां त्याज्यं मांसं नृणां सदा
—as well as the meat of cats, jackals, chickens, tigers, and lions, O king of Vraja, should always be avoided by humans.
जलौकसां च नक्राणां गेधिकानां तथैव च । मण्डूकानां कर्कटानां चुञ्चुकानां च निश्चितम्
The flesh of leeches, crocodiles, hedgehogs, frogs, crabs, and birds with beaks is certainly prohibited.
गवां च चमरीणां च न कलौ मांसभक्षणम् । हस्तिनां घोटकानां च नृणामेव च रक्षसाम्
The meat of cows and yaks should not be eaten in the Kali age, nor that of elephants, horses, humans, or demons.
दंशश्च मशकश्चैव मक्षिका च पिपीनिका । अन्येधां च निषिद्धानां लोके वेदे व्रजेश्वर
Mosquitoes, flies, bees, ants, and other such forbidden creatures are prohibited in the world and in the Vedas, O king of Vraja.
वानराणां भल्लुकानां शरभाणां तथैव च । निषिद्धं मृगनाभीनां गर्दभानां च मांसकम्
The meat of monkeys, bears, sharabhas, musk deer, and donkeys is forbidden.
अभक्ष्यं महिषीणां च दुग्धं दधि घृतं तथा । स्वस्तिकं च तथा तत्र विप्राणां नवनीतकम्
The milk, curd, clarified butter, and svastika (fermented food) of buffaloes, and fresh butter for Brahmins, are all unfit for eating.
मांसमुच्छैःश्रवसकं तस्य दुग्धादिकं तथा । वर्णानां च चतुर्णां चाप्यभक्ष्यं च श्रुतौ श्रुतम्
The meat of the horse Ucchaiḥśravas, its milk and so on, and for all four varṇas, are declared unfit for eating in the scriptures.
अभक्ष्यमार्द्रकं चैव सर्वेषां च रवेर्दिने । पर्युषितं चलं चान्नं विप्राणां दुग्धमेव च
Ginger is unfit for all on Sundays, as is stale or spoiled food, and for Brahmins, milk as well.
वर्णानां च चतुर्णां चाप्यवीरान्नस्य भक्षणम् । तदन्नं च सुरातुल्यं गोमांसाधिकमेव च
For all four varṇas, eating food that is not consecrated is forbidden; such food is considered equal to wine and even worse than cow meat.
अवीरान्नं च योभुङ्क्ते ब्राह्मणो ज्ञानदुर्बलः । पितृदेवार्चनं तस्य निष्फलं मनुरब्रवीत्
If a Brahmin lacking in knowledge eats unconsecrated food, Manu has said that his worship of ancestors and gods becomes fruitless.
ब्रह्माणानां व२ष्णवानामभक्ष्यं मत्स्यमेव च । इतरेषामभक्ष्यं च पञ्चपर्वसु निश्चितम्
Fish is forbidden for Brahmins and Vaishnavas; for others, the five-jointed animals are certainly prohibited.
पितृदेवावशेषे च भक्ष्यं मांसं न दूथितम् । पञ्चपर्वसु त्याज्यं च सर्वेषां मनुरब्रवीत्
Among offerings to ancestors and gods, meat may be eaten if not stale; Manu declared that all must avoid the five-jointed animals.
असंस्कृतं च लवणं तैलं चाभक्ष्यमेव च । भक्ष्यं पवित्रं सर्वेषां व्यञ्जनं वह्निसंस्कृतम्
Unprocessed salt and oil are also forbidden; pure food for all is that which is seasoned and cooked by fire.
एकहस्ते घृतं तोयमभक्ष्यं सर्वमंमतम् । आविलं कृमियुक्तं च परिशुद्धं च निर्मलम्
Ghee and water taken with one hand are considered unfit for consumption by all; cloudy, worm-infested, or impure substances must be purified and made clean.
अभक्ष्यं ब्रह्माणानां च वैष्णवानां विशेषतः । अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम्
For Brahmins and especially Vaishnavas, certain foods are forbidden; for ascetics and celibates, anything not offered to Hari is not to be consumed.
पिपीलिकामिश्रितं च मधु गव्यं गुडं तथा । यत्किंचिद्वस्तु वा तात न भक्ष्यं च श्रुतौ श्रुतम्
Honey mixed with ants, cow's milk, and jaggery, or any such item, O dear one, is not to be eaten, as heard in the scriptures.
पक्षिभक्ष्यं कीटभक्ष्यं शृद्धं पक्वफलं तथा । काकभक्ष्यमभक्ष्यं च सर्वेषां द्रव्यमेव च
Bird-eaten, insect-eaten, cooked, or ripe fruit, and food eaten by crows are forbidden for all.
घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् । अभक्ष्यं ब्राह्मणानां च शूद्रभक्ष्यं च पीठकम्
Sweets cooked in ghee or oil, and food prepared by Shudras, are forbidden for Brahmins; the food of Shudras is called pīṭhaka and is not to be eaten.
सर्वेषामशुचीनां च जलमन्नं परित्यजेत् । आशौचान्तात्परदिने शुद्धमेव न संशयः
All should abandon water and food from impure persons; after the period of impurity, only pure food is permitted, without doubt.
विपाकं कर्मणामेव दुष्करं श्रुतिसंमतम् । भक्ष्याभक्ष्यं च कथितं यथाज्ञानं व्रचेश्वर
The difficult consequences of actions are established in the scriptures; what is fit or unfit to eat has been explained according to knowledge, O lord of vows.
क्रमाच्चतुर्षु वेदेषु चौक्तं मतचतुष्टयम् । सर्वेषां सारभूतं च कथयामि पितः शृणु
In order, the four Vedas declare four opinions; I will tell you, O father, the essence for all—listen.
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
Unexperienced karma does not perish even after hundreds of thousands of cycles; whatever karma is done, good or bad, must surely be experienced.
तीर्थानां च सुराणां च सहायेन नृणामपि । किंचिद्भवति साहाय्यं कायव्यूहेन सर्वतः
For holy places, gods, and even people, some assistance comes from the arrangement of the body in every way.
प्रायश्चितानि चीर्णानि निश्चितममत्पराङमुखम् । न निष्पुनन्ति हे तात सुराकुम्भमिवाऽऽपगाः
Even if expiations are performed with a mind turned away from me, O dear one, they do not purify, just as rivers do not cleanse a jar of liquor.
प्रायश्चित्तेन पुण्येन न हि शुध्यन्ति मानवा । सर्वारम्भेण वैश्येन्द्र दानेन योगतोऽपि वा
By expiation or merit, humans are not purified; not by any undertaking, O lord of merchants, nor by charity or even by yoga.
शुभाशुभं च यत्कर्म विना भोगान्न च क्षयः । भोगेन शुद्धिमाप्नोति ततो मुक्तिर्भवेन्नृणाम्
Good or bad karma does not diminish without enjoyment; by experiencing it, purification is attained, and then liberation comes to humans.
न नष्टं दुष्कृतं कर्म सुकृतेन च कर्मणा । न नष्टं सुकृतं कर्म कृतेन दुष्कृतेन च
Evil karma is not destroyed by good actions, nor is good karma destroyed by evil actions.
यज्ञेन तपसा वाऽपि व्रतेनानशनेन च । तीर्थस्नानेन दानेन जपेन नियमेन च
By sacrifice, austerity, vow, fasting, bathing at holy places, charity, recitation, or discipline,
भुवः प्रदक्षिणेनैव पुराणश्रवणेन च । उपदेणेन पुण्येन पूजया गुरुदेवयोः
By circumambulating the earth, by hearing the ancient scriptures, by virtuous instruction, and by worship of the revered teacher and deity.
स्वधर्माचरणेनैवातिथीनां पूजनेन च । ब्रह्मणां पूजनेनैव भोजनेन विशेषतः
By practicing one's own duty, by honoring guests, by worshipping the Brahmins, and especially by offering food.