सहस्रं तु सहस्राणां कोटीनां पद्ममुच्यते
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः
कोटीसहस्रप्रयुतं मध्यमित्यभिसंज्ञितम्
परार्द्धं द्विगुणं चापि परमाहुर्मनीषिणः
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः
खर्वं चैव निखर्वं च शङ्कुः पद्मन्तथैव च
एवमष्टादशैतानि स्थानानि गणनाविधौ
कल्पसंख्याप्रवृत्तस्य परार्द्धो ब्रह्ममः स्मृतः
पर एव परार्द्धश्च संख्यातः संख्याया मया
परा शक्तिः परो धर्मः पराविद्या परा धृतिः
तस्मात्परतरं भूतं ब्रह्मणो यन्न विद्यते
संख्यातस्तु परो ब्रह्मा तस्यार्द्धस्य परार्द्धता
संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते
आनन्त्यं सिकता द्येषु हृष्टं चान्यं त्वलक्षणम्
एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति
बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः
ब्रह्मलोकस्तु भगवन्यावन्मात्रान्तरे प्रभो
क्रोशस्य च परीमाणं श्रोतुमीच्छाम तत्त्वतः
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम्
अव्यक्ताद्व्यक्तभागो वै महान्स्थूलो विभाष्यते
दशभागाधिकं चापि भूतादिपरिमाणकम्
यदभेद्यतमं लोके विज्ञेयं परमाणुवत्
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते
ते ऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः
यूकाष्टकं यवप्राहुरङ्गुलं तु यवाष्टकम्
रत्निश्चागुलिपर्वाणि विज्ञेयो ह्येकविंशतिः
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः
एतद्गव्यूतिसंख्यायामादानं धनुषः स्मृतम्
धनुषां त्रिशतं नल्वमाहुः संख्याविदो जनाः