हित्वा शरीरं पाप्मानममृतत्वाय ते गाताः
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः
अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः
यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम
शृणुध्वं मे परार्द्धस्य परिसंख्यां परस्यच
विज्ञेयमासहस्रं तु सहस्राणि दशायुतम्
तथा शतसहस्राणां दशप्रयुतमुच्यते
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः
दशकोटिसहस्राणि निखर्वमिति तं विदुः
सहस्रं तु सहस्राणां कोटीनां पद्ममुच्यते
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः
कोटीसहस्रप्रयुतं मध्यमित्यभिसंज्ञितम्
परार्द्धं द्विगुणं चापि परमाहुर्मनीषिणः
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः
खर्वं चैव निखर्वं च शङ्कुः पद्मन्तथैव च
एवमष्टादशैतानि स्थानानि गणनाविधौ
कल्पसंख्याप्रवृत्तस्य परार्द्धो ब्रह्ममः स्मृतः
पर एव परार्द्धश्च संख्यातः संख्याया मया
परा शक्तिः परो धर्मः पराविद्या परा धृतिः
तस्मात्परतरं भूतं ब्रह्मणो यन्न विद्यते
संख्यातस्तु परो ब्रह्मा तस्यार्द्धस्य परार्द्धता
संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते
आनन्त्यं सिकता द्येषु हृष्टं चान्यं त्वलक्षणम्
एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति
बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः
ब्रह्मलोकस्तु भगवन्यावन्मात्रान्तरे प्रभो
क्रोशस्य च परीमाणं श्रोतुमीच्छाम तत्त्वतः
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम्
अव्यक्ताद्व्यक्तभागो वै महान्स्थूलो विभाष्यते