देवान्वये देवता हि सप्त संभूत यः स्मृताः
आवर्त्तमाना देवास्ते क्रमेणैतेन सर्वशः
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम्
निवृत्तवृत्त्यः सर्वे ऽत्रस्थाः सुमनसस्तथा
ततो ऽनेनैव कालेन नित्ययुक्तास्तपस्विनः
इहोत्पन्नास्ततस्ते वै स्थानान्यापूरयन्त्युत
एवं देवगणाः सर्वे दशकृत्वो निवर्त्यवै
पूर्णोपूर्णो ततः कल्पेस्थित्वा वैराजके पुनः
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते
एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै
एवं देवयुगानीह व्यतीतानि सहस्रशः
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम्
एवमेव न संदेहो यथावत्कथितं मया
सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम्
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम्
सूतः पौराणिको वाक्यं विनयेनेदम ब्रवीत्
आभूतसंप्लवास्तत्र दश तिष्ठन्ति ते ऽज्वराः
स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते
एवमेव महाभागाः प्रणवं संप्रविश्य ह
एवमुक्त्वा तदा सर्वे ब्रह्माण्डाध्यवसायि नः
तत्रैव संप्रलीयन्ते शान्ता दीपर्चिषो यथा
लोकं तं समनुप्राप्य सर्वे ते भावनामयम्
वैराजेभ्यस्तथैवोर्द्ध्व मन्तरे षड्गुणे ततः
ते सर्वे प्रणवात्मानो बुद्धिशुद्धतया स्थिताः
द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनः
ब्रह्मणा सहदेवैश्च संप्राप्ते प्रतिसंचरे
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः
देवर्षयो ब्रह्मसत्रं सनातनमुपासते
कर्माभ्यासकृतां श्रद्धां वेदान्तेषूपलक्ष्यते