योगं तपश्च सत्त्वं च समाधाय तदात्मनि
सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम्
पर्यासपरिमाणेन भूर्लोकः समभिस्मृतः
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः
व्याख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः
भुवि स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा
एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम्
प्रथमानन्तरोद्दिष्टा अन्तराः सांप्रतैः पुनः
विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः
मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः
पूर्वं ते संप्रसूयन्ते ब्रह्मणो मानसा इह
कल्पदाहेषु तु सदा तथा कालेषु तेषु वै
शिखाः संवर्त्तकाग्नेर्याः प्राप्नुवन्ति सवासनाः
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते
तेषां ते तुल्यसामर्थ्या स्तुल्यमूर्त्तिधरास्तथा
व्युष्टायां तु रजन्यां वै ब्रह्मणो ऽव्यक्तयोनितः
स्वायंभुवादयः सर्वे मरीच्यन्तास्तु साधकाः
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः
देवान्वये देवता हि सप्त संभूत यः स्मृताः
आवर्त्तमाना देवास्ते क्रमेणैतेन सर्वशः
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम्
निवृत्तवृत्त्यः सर्वे ऽत्रस्थाः सुमनसस्तथा
ततो ऽनेनैव कालेन नित्ययुक्तास्तपस्विनः
इहोत्पन्नास्ततस्ते वै स्थानान्यापूरयन्त्युत
एवं देवगणाः सर्वे दशकृत्वो निवर्त्यवै
पूर्णोपूर्णो ततः कल्पेस्थित्वा वैराजके पुनः
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते
एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै