स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते
ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे
जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः
रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः
रत्नो वराङ्ग्यजनयन्मार्कण्डेयी यशस्विनी
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम्
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः
निर्मथ्यः पवमानस्तु शुचिः सौरस्तु यः स्मृतः
पवमानात्मजश्चैव कव्यवाहन उच्यते
देवानां हव्यवाहो ऽग्निः पितॄणां कव्यवाहनः
एतेषां पुत्रपौत्रास्तु चत्वारिंशन्न वैव तु
विश्रुप्तो लौकिको ऽग्निस्तु प्रथमो ब्रह्मणः सुतः
वैश्वानरः सुतस्तस्य वहन् हव्यं समाः शतम्
सोथर्वा लौकिको ऽग्निस्तु दर्पहाथर्वणः स्मृतः
तस्मात्स लौकिको ऽग्निस्तु दध्यङ्ङाथर्वणो मतः
स ज्ञेयो गार्हपत्यो ऽग्निस्तस्य पुत्रद्वयं स्मृतम्
द्वितीयस्तु सुतः प्रोक्तः शुको ऽग्निर्यः प्रणीयते
शंस्यस्तु षोडश नदीश्चकमे हव्यवाहनः
कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा
विपाशां कौशिकीञ्चैव शतद्रूं सरयूं तथा
तासु षोडशधामानं प्रविभज्य पृथक्पृथक्
कृत्तिकाचारिणी धिष्णी जज्ञिरे ताश्च धिष्णयः
इत्येते वै नदीपुत्रा धिष्णीष्वेवं विजज्ञिरे
ताञ्शृणुध्वं समासेन कीर्त्यमानान्यथातथम्
विधीयन्ते यथास्थानं सूत्याहे सवने क्रमात्
सम्राडग्नि कृशानुर्यो द्वितीयोंऽतरवेदिकः
परिषत्पवमानस्तु द्वितीय सो ऽनुदिश्यते
हव्यस्ततो ह्यसंमृष्टः शामित्रे ऽग्नौ विभाव्यते