भूरिति व्याहृतेः पूर्व भूर्लोकश्च ततो ऽभवत्
तृतीयं स्वरितीत्युक्तो दिवं प्रादुर्बभूव ह
ततो भूः पार्थिवो लोको ह्यन्तरिक्षं भूवः स्मृतम्
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः
दिवस्य सूर्यो ऽधिपतिस्तेन सूर्यो दिवस्पतिः
विनिवृत्ताधिकारणां देवानां तत्र वै क्षयः
तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः
कल्प एते यदा लोके प्रतिष्ठन्ति तदा तपः
तपसा भावितात्मानस्तत्र संतीति वा तपः
ब्रह्मलोकस्ततः सत्यः सप्तमः स तु भास्वरः
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः
मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ
आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा
एते वैमानिका देवास्ताराग्रहनिवासिनः
शुक्राद्याश्चक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः
तान्सर्वान्सप्तसूर्यास्ते अर्चिभिर्निर्दहन्ति वै
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्वरेतसः
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः
योगं तपश्च सत्त्वं च समाधाय तदात्मनि
सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम्
पर्यासपरिमाणेन भूर्लोकः समभिस्मृतः
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः
व्याख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः
भुवि स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा
एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम्
प्रथमानन्तरोद्दिष्टा अन्तराः सांप्रतैः पुनः
विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी