द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः
अशीतिश्च सहस्राणि एष कालः प्लवस्य तु
महाभूतषु लीयन्त प्रजाः सर्वाश्चतुर्विधाः
सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे
निरालोके प्रदग्धे तु नैशेन तमसा वृते
तावदेकार्मवे ज्ञेयं यावदासीदहः प्रभोः
अहोरात्रस्तथैवास्य क्रमेण परिवर्तते
त्रैलोक्ये यानि सत्त्वानि गतिमन्तिध्रुवाणि च
अतीता वर्तमानाश्च तथैवानागताः प्रजाः
परार्द्धं द्विगुणं चापि परमायुः प्रकीर्त्ततम्
स्थित्यन्तं प्रतिसर्गश्च ब्रह्मणः परमेष्ठिनः
तथैव प्रतिसर्गेण ब्रह्मा समुपशाम्यति
महत्प्रलीयते व्यक्ते गुणसाम्यं ततो भवेत्
समासेन समाख्यातो भूयः किं वर्मयामि वः
कीर्त्तयेद्वर्णयेद्वापि महतीं सिद्धिमाप्नुयात्
धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः
देवाश्च ऋषयश्चैव मनवः पितरस्तथा
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सरैः
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः
महर्ल्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभोः
प्रोवाच मधुरं वाक्यं यथा तत्त्वेन तत्त्ववित्
लोकाख्यानि तु यानि स्युर्येषां तिष्ठन्ति मानवाः
भूरादयस्तु सत्यान्ताः सप्त लोकाः कृतास्त्विह
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम्
स्थानान्येतानि चत्वारि स्मृतान्यावर्णकानि च
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवात्
एकान्तिकानि तानि स्युस्तिष्ठन्तीहाप्रसंयमात्
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते