सा युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै
एतद्ब्राह्ममहर्ज्ञेयं तस्य सख्यां निबोधत
मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृताः
प्रस्था सप्तो दकाश्चैव साधिकाक्तु लवः स्मृतः
मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः
ताश्चैव संख्याया ज्ञेयाश्चन्द्रादित्यगतिर्यथा
त्रिंशत्कला मुहूर्त्तं तु दशभागं कला स्मृतम्
मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः
मागधेनैव मानेन जलप्रस्थो विधीयते
हेममाषैः कृतच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः
रवेर्गतिविशेषेण सर्वेष्वेतेषु नित्यशः
तदहर्मानुषं ज्ञेयं नाक्षत्रं तु दशाधिकम्
एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः
तदा बद्धमिदं ज्ञानं संज्ञया ह्युपलक्षितम्
यदहो ब्रह्मणः प्रोक्तं दिव्या कोटी तु सा स्मृता
नवतिं च सहस्राणि तथैवान्यानि यानि तु
संख्यासंभजनं ज्ञानमपृच्छन्सुतरां तदा
मानेन श्रोतुमिच्छामः संक्षेपार्थपादाक्षरम्
संक्षेपाद्दिव्यचक्षुष्ट्वा त्प्रोवाच वचनं प्रभुः
तासां संख्याथ वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षये
द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः
अशीतिश्च सहस्राणि एष कालः प्लवस्य तु
महाभूतषु लीयन्त प्रजाः सर्वाश्चतुर्विधाः
सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे
निरालोके प्रदग्धे तु नैशेन तमसा वृते
तावदेकार्मवे ज्ञेयं यावदासीदहः प्रभोः
अहोरात्रस्तथैवास्य क्रमेण परिवर्तते
त्रैलोक्ये यानि सत्त्वानि गतिमन्तिध्रुवाणि च
अतीता वर्तमानाश्च तथैवानागताः प्रजाः
परार्द्धं द्विगुणं चापि परमायुः प्रकीर्त्ततम्