एवमेशायित्वा तु ह्यात्मन्येव प्रजापतिः
ततः स वसते रात्रिं तमस्येकार्णवे जले
मनः सिसृक्षया युक्तः सर्गाय निदधे पुनः
ब्राह्मे नैमित्तिके तस्मिन्कल्पिते वै प्रसंयमे
ततो धग्धेषु भूतेषु सर्वेष्वादित्यरशिमभिः
गन्धर्वादीनि सत्त्वानि पिशायान्तानि सर्वशः
तिर्यग्योनीनि नरके यानि यानि गतान्यपि
जले तान्युपपद्यन्ते यावत्संप्लवते जगत्
जायन्ते हि पुनस्तानि सर्वभूतानि कृतस्नशः
तेषामपि च सिद्धानां निधनोत्पत्तिरुच्यते
तथा जन्मनिरोधश्च भूतानामिह दृश्यते
यथा सर्वाणि भूतानां जायन्ते वर्षणेष्विह
यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्यये
प्रत्याहारे विसर्गे च गतिमन्ति ध्रुवाणि च
ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम्
व्यक्तो ऽव्यक्तो महादेवस्तस्य सर्वमिदं जगत्
पूर्वं प्रयातेन यथात्वथापस्तेनैव तेनैव तु स्वर्व्रजन्ति
मर्त्यास्तु देहान्तरभावितत्वाद्रवेर्वशादूर्ध्वमधश्चरन्ति
तद्भाविताः ख्यातिवशाश्च धर्म्याः पुनर्विसर्गेण भवन्ति सत्त्वाः
मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः
सा युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै
एतद्ब्राह्ममहर्ज्ञेयं तस्य सख्यां निबोधत
मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृताः
प्रस्था सप्तो दकाश्चैव साधिकाक्तु लवः स्मृतः
मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः
ताश्चैव संख्याया ज्ञेयाश्चन्द्रादित्यगतिर्यथा
त्रिंशत्कला मुहूर्त्तं तु दशभागं कला स्मृतम्
मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः
मागधेनैव मानेन जलप्रस्थो विधीयते
हेममाषैः कृतच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः