उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्तका घनाः
केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः परे
धूम्रवर्णा घनाः केचित्केचित्पीताःपयोधराः
मनशिलाभास्त्वपरे कपोताभास्तथांबुदाः
चाषपत्रनिभाः केचिदुत्तिष्ठन्ति घना दिवि
केचित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः
बहुरूपा घोररूपा घोरस्वरनिनादिनः
ततस्ते जलदा घोरराविणो भास्करात्मकाः
ततस्ते जलदा वर्षं मुञ्चन्ति च महौघवत्
प्रवृष्टैश्च तथात्यर्थं वारिणा पूर्यते जगत्
नष्टे चाग्नौ वर्षगते पयोदाः पावकोद्भवाः
धाराभिः पूरयन्तीमं चोद्यमानाः स्वयंभुवा
साद्रिद्वीपान्तरं पीतं जलमन्नेषु तिष्ठति
संवेष्टयति घोरात्मा दिवि वायुः समततः
पूर्मे युगसहस्रे वै निःशेषः कल्प उच्यते
अथ भूमिर्जलं खं च वायुश्चैकार्मवे तदा
पार्थिवास्त्वथ सामुद्रा आपो दैव्याश्च सर्वशः
आगतागतिके चैव तदा तत्सलिलं स्मृतम्
आभाति यस्मात्तद्भाभिर्भाशब्दो व्याप्तिदीप्तिषु
नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते
तस्मिन्युगसहस्रान्ते दिवसे ब्रह्मणो गते
तदा तु सर्वे व्यापारा निवर्त्तन्ते प्रजापतेः
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात्
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयी मयो यः पुरुषो निरुच्यते
हिरण्यगर्भः पुरुषो महान्वै संपठ्यते वै रजसः परस्तात्
सुषुप्सुरप्रकाशेप्सुः स रात्रिं कुरुते प्रभुः
पश्यन्ति तं महात्मानं कालं सप्त महर्षयः जनलोकं विवर्त्तास्ते तपसा लब्धचक्षुषः
भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः
ब्रह्माणं ते तु पश्यन्ति सदा ब्राह्मीषु रात्रिषु
कल्पानां परमेष्टि त्वात्तस्मादाद्यः स पठ्यते