प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः
ततः संहृत्य तान्ब्रह्मा देवांस्त्रैलोक्यवासिनः
सुषुप्सुर्भगवान्ब्रह्मा प्रजाः संहरते तदा
तत्रात्मस्थाः प्रजाः कर्तुं प्रपेदे स प्रजापतिः
तया यान्यल्पसाराणि सत्त्वानि वृथिवीतले
सप्तरश्मिरथो भूत्वा उदत्तिष्ठद्विभावसुः
हरीतारश्मयस्तस्यदीप्यमानास्तु सप्ततिः
भौमं काष्ठेन्धनं तेजो भृशमद्भिस्तु दीप्यते
नावृष्ट्या तपते सूर्य्यो नावृष्ट्या परिषिच्यते
तस्मादपः पिबन्यो वै दीप्यते रविरंबरे
तेनाहारेण संदीप्ताः सूर्याः सप्त भवन्त्युत
चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः
स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम्
साद्रिनद्यर्णवा पृथ्वी निस्नेहा समपद्यत
अधश्चोर्ध्वं च तिर्यक् च संरूद्धा सूर्यरश्मिभिः
एकत्वमुपयातानामेकज्वाला भवत्युत
चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत्
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते घनः
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च
सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः
पिबत्यपः समिद्धो ऽग्निः पृथिवीमाश्रितो ज्वलन्
लोकान्संहरते दीप्तो घोरः संवर्त्तको ऽनलः
निर्दह्यान्ते तु पातालं वायुलोकमथादहत्
योजनानां सहस्राणि प्रयुतान्यर्बुदानि च
गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान्
भूर्लोकं च भुवर्ल्लोकं स्वर्लोकं च महस्तथा
व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना
अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते