सुत्रामाणः प्रयाज्यास्तु आज्याशा ये तु सांप्रतम्
उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः
पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः
पौलहस्तत्त्वदर्शी छ भार्गवश्च निरुप्सुकः
सुतपाश्चैव वासिष्ठः सप्तैते तु त्रयोदश
अनेकः क्षत्रविद्धश्च सुरसो निर्भयो दश
चतुर्दशे तु पर्याये भौत्यस्याप्यन्तरे मनोः
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजितास्तथा
निषादाद्याः स्वराः सप्त सप्त तान्विद्धि चाक्षुषान्
सप्त लोकाः पवित्रास्ते भ्राजिताः सप्तसिंधवः
सर्वे मन्वन्तरेद्राश्च विज्ञेयास्तुल्यलक्षणाः
त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च
भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः
अग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः
शुक्रश्चैव तु वासिष्ठः पौलहो मुक्त एव च
उरुर्गुरुश्च गंभीरो बुद्धः शुद्धः शुचिः कृती
सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः
भौत्यस्यैवाधिपत्ये तु तूर्णं कल्पस्तु पूर्यते
निःशेषेषु तु सर्वेषु तदा मन्वन्तरेष्विह
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा
पितृभिर्मनुभिः सार्द्धं क्षीणे मन्वन्तरे तदा
ततः स्थाना नि शुभ्राणि स्थानिनां तानि वै तदा
ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह
अजिताद्या गणा यत्र आयुष्मन्तश्चतुर्दश
सशरीराश्च श्रूयन्ते जनलोके सहानुगाः
भूतादिष्ववशिष्टेषु स्थावरां तेषु तेषु वै
देवेषु च गतेष्वूर्द्ध्वं सायुज्यं कल्पवासिनाम्
संस्थापयति वै सर्गमहर्दृष्ट्वा युगक्षये
रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः
त्रिविधिः सर्वभूतानामित्येष प्रतिसंचरः