ब्रह्माण्डपुराणम्
हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चाथ भार्गवः
पौलस्त्यो ऽप्रतिमश्चापि नाभागश्चैव काश्यपः
सुक्षेत्रश्चोत्तमौजाश्च भूरिसेनश्च वीर्यवान्
भूरिद्युम्नः सुवर्चाश्च दशैतेमानवाः स्मृताः
निर्वाणरतयो देवाः कामगा वै मनोजवाः
एकैकस्त्रिंशतस्तेषां गणस्तु त्रिदिवौकसाम्
निर्वाणरतयो देवा रात्रयस्तु विहङ्गमाः
मनोजवा मूरूर्त्तास्तु इति देवाः प्रकीर्तिताः
तेषामिद्रो वृषा नाम भविष्यः सुरराट् ततः
हविष्मान्काश्यपश्चापि वपुष्मांश्चैव भार्गवः
पुष्टिराङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा
सर्ववेगः सुधर्मा च देवानीकः पुरोवहः
सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै नव
चतुर्थो रुद्रसावर्णो देवांस्तस्यान्तरे शृणु
हरिता रोहिताश्चैव देवाः सुमनसस्तथा
पर्वतो ऽनु चरश्चैव अपाशुश्च मनोजवः
तपो ज्ञानी मृतिश्चैव वर्चा बन्धुश्च यः स्मृतः
पुष्टिर्विधिश्च वै देवा दशैते रोहिताः स्मृताः
ते वै सुमनसो वेद्यान्निबोधत सुकर्मणः
विक्रमश्च क्रमश्चैव विभृतः कान्त एव च
वर्षो दिव्यस्तथाञ्जिष्ठो वर्चस्वी द्युतिमान्कविः
सुतारा नामतस्त्वेते देवा वै संप्रकीर्तिताः
द्युतिर्वसिष्ठपुत्रस्तु आत्रेयः सुतपास्तथा
तपोधनश्च पौलस्त्यः पौलहश्च तपोरतिः
एते सप्तर्षयः सिद्धा अन्त्ये सावर्णिकेंऽतरे
मित्रवान् मित्रसेनो ऽथ चित्रसेनो ह्यमित्रहा
त्रयोदशेतु पर्याये भाव्ये रौच्येन्तरे पुनः
ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः
त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनाम्
आज्येन पृषदाज्येन ग्रहश्रेष्टेन चैव ह