सुधर्माणस्तु वक्ष्यामि नामतस्तान्निबोधत
अमितो द्रवकेतुश्च जंभो ऽथाजस्तु शक्रकः
तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः
मेधातिथिश्च पौलस्त्यो वसुः काश्यप एवं च
वसिनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः
धृतिकेतुर्दीप्तिकेतुः शापहस्तनिरामयाः
प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः
द्वीतीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः
दीप्तिमन्तश्च ते सर्वे शतसंख्याश्च ते समाः
देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः
हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चाथ भार्गवः
पौलस्त्यो ऽप्रतिमश्चापि नाभागश्चैव काश्यपः
सुक्षेत्रश्चोत्तमौजाश्च भूरिसेनश्च वीर्यवान्
भूरिद्युम्नः सुवर्चाश्च दशैतेमानवाः स्मृताः
निर्वाणरतयो देवाः कामगा वै मनोजवाः
एकैकस्त्रिंशतस्तेषां गणस्तु त्रिदिवौकसाम्
निर्वाणरतयो देवा रात्रयस्तु विहङ्गमाः
मनोजवा मूरूर्त्तास्तु इति देवाः प्रकीर्तिताः
तेषामिद्रो वृषा नाम भविष्यः सुरराट् ततः
हविष्मान्काश्यपश्चापि वपुष्मांश्चैव भार्गवः
पुष्टिराङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा
सर्ववेगः सुधर्मा च देवानीकः पुरोवहः
सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै नव
चतुर्थो रुद्रसावर्णो देवांस्तस्यान्तरे शृणु
हरिता रोहिताश्चैव देवाः सुमनसस्तथा
पर्वतो ऽनु चरश्चैव अपाशुश्च मनोजवः
तपो ज्ञानी मृतिश्चैव वर्चा बन्धुश्च यः स्मृतः
पुष्टिर्विधिश्च वै देवा दशैते रोहिताः स्मृताः
ते वै सुमनसो वेद्यान्निबोधत सुकर्मणः
विक्रमश्च क्रमश्चैव विभृतः कान्त एव च