सर्वकन्यावरिष्ठा तु ज्येष्ठा या वीरिणीसुता
वैराजस्थमुपासीनं धर्मेण च भवेन च
दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता
ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा
सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत
संसिद्धाः कार्यकरणे संभूतास्ते श्रियान्विताः
ते दृष्ट्वा तान्स्वयंभूतान्ब्रह्मव्याहारिणस्तदा
अभिध्यायात्मनोत्पन्नानूचुर्वै ते परस्परम्
यस्य यः सदृशश्चापि रूपे वीर्ये च मानतः
ध्रुवं रूपं पितुः पुत्रः सो ऽनुरुध्यति सर्वदा
एवं ते समयं कृत्वा सर्वेषां जगृहः सुतान्
रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः
वैवस्वतेंऽतरे जातौ द्वौ मनू तु विवस्वतः
ज्ञेयः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः
सावर्णम नवो ये च चत्वारस्तु महर्षिजाः
भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः
संभूताश्च महात्मानः सर्वे वैवस्वतेन्तरे
भविष्यन्ति भविष्यास्तु एकैको द्वादशो गणः
पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत
दधिक्रावा विपक्वश्च प्रणीतो विजयो मधुः
सुधर्माणस्तु वक्ष्यामि नामतस्तान्निबोधत
अमितो द्रवकेतुश्च जंभो ऽथाजस्तु शक्रकः
तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः
मेधातिथिश्च पौलस्त्यो वसुः काश्यप एवं च
वसिनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः
धृतिकेतुर्दीप्तिकेतुः शापहस्तनिरामयाः
प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः
द्वीतीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः
दीप्तिमन्तश्च ते सर्वे शतसंख्याश्च ते समाः
देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः